SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ३८ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । [अवश्यपाव्यम्] अवश्यं पूयतेऽवश्यपाव्यम् । ‘उवर्णादावश्यके' (५।१।१९) घ्यणप्र० → य । शेषं 'अवश्यलाव्यम्' वत् । [गव्यम्] गोभ्यो हितं = गव्यम् । 'तस्मै हिते' (७।१।३५) यप्र० । [नाव्यम्] नौभ्यो हितं = नाव्यम् । 'तस्मै हिते' (७।१।३५) यप्र० । [उपोयते] 'वेंग् तन्तुसन्ताने (९९२) वे । 'आत् सन्ध्यक्षरस्य' (४।२।१) आत्त्वे वा, उपपूर्व० । वर्त्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य । 'यजादि-वचेः किति' (४।१।७९) य्वृत् उ । 'दीर्घश्च्चि०' (४।३।१०८) ऊ। 'अवर्णस्ये०' (१।२।६) ओ० । [औयत] 'वेंग तन्तुसन्ताने' (९९२) वे । 'आत् सन्ध्यक्षरस्य' (४।२।१) आत्त्वे वा । हस्तनी० त । ‘क्यः शिति' (३।४।७०) क्यप्र० → य । 'यजादि-वचेः किति' (४।१।७९) य्वृत् उ । 'दीर्घश्च्चि०' (४।३।१०८) ऊ । 'स्वरादेस्तासु' (४।४।३१) वृद्धिः औ. । [लौयमानिः] 'लूगश् छेदने' (१५१९) लू । लूयते = लूयमानः । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२०) आनश्प्र० → आन । अतो म आने' (४।४।११४) मागमः । 'क्यः शिति' (३।४७०) क्यप्र० →य । लूयमानस्याऽपत्यं लौयमानिः । 'अत इञ्' (६।१।३१) इञ्प्र० → इ । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः औ । प्रथमैक० सि । [गोयूतिः] गवां यूतिर्गोयूतिः । [नौयानम] नावा यानं = नौयानम् । [गव्यूतिः] गवां यूतिर्गव्यूतिः । [शरव्यम] शरुभ्यो हितम् । 'उवर्ण-युगादेर्यः' (७।१।३०) यप्र० । अथवा शर अग्रे 'व्ययी गतौ' (९१८) व्यय । शरात् व्ययतीति । 'क्वचित्' (५1१1१७१) डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२११११४) अय्लोपः ।। छ ।। ऋतो रस्तद्धिते ।।१।२।२६।। [ऋतो रस्तद्धिते] ऋत् षष्ठी डस् । र प्रथमैक० सि । 'सो रुः' (२११७२) र० । तेभ्यो हितं = तद्धितं, अथवा ताभ्यः औपगवादिवृत्तिभ्यो हितं = तद्धितं, तस्मिन् । [पित्र्यम] पितरि साधुः = पित्र्यम् । 'तत्र साधौ' (७।१।१५) यप्र० । अनेन र० । प्रथमैक० सि । [भ्रात्र्यम्] भ्रातरि साधुर्धात्र्यम् । 'तत्र साधौ' (७।१।१५) यप्र० । अनेन र० । प्रथमैक० सि । [कार्यम्] 'डुकंग करणे' (८८८) कृ । क्रियते इति कार्यम् । 'ऋवर्ण-व्यञ्जनाद् घ्यण' (५1१1१७) घ्यणप्र० → य । 'नामिनोऽकलि-हलेः' (४।३५१) वृद्धिः आर् । प्रथमैक० सि ।। छ ।। एदोतः पदान्तेऽस्य लुक् ।।१।२।२७।। [एदोतः] एच्च ओच्च = एदोत्, तस्मात् । [पदान्तेऽस्य] पदस्याऽन्तः पदान्तस्तस्मिन् = पदान्ते, सप्तम्येक० ङि, ‘अवर्णस्ये०' (१।२।६) ए. । अ षष्ठयेक० ङस्० । 'टा-ङसोरिन-स्यौ' (१।४।५) स्य. । [लुक्] लुक् प्रथमा सि । [तेऽत्र] तद् प्रथमावहु० जस् । 'आ द्वेरः' (२।१।४१) दकार० → अकारु । 'लुगस्यादेत्यपदे' (२।१।११३) अकारस्य लोपः । 'जस इ:' (१।४।९) इ । 'अवर्णस्येवर्णादिनैदोदरल' (१।२।६) ए । अत्र अव्यउ । प्रथमैक० सि । 'अव्ययस्य' Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy