SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । [नदि एषा, नद्येषानदी प्रथमैक० सि । “दीर्घड्याव्०' (१।४।४५) सिलोपः । एषा (१।२।१२) सूत्रवत् । अनेन ह्रस्वत्वम् । पक्षे 'इवर्णादेरस्वे०' (१।२।२१) यत्वम् । [मधु अत्र, मध्वत्र] मधु प्रथमैक० सि | 'अनतो लुप्' (११४१५९) सिलोपः । अत्र प्रथमैक० सि । 'अव्ययस्य' (३।२।७) सिलोपः । अनेन ह्रस्वत्वम् । पक्षे 'इवर्णादेरस्वे०' (१।२।२१) वत्वम् । [नद्यौ] नदी प्र० औ । 'इवर्णादे०' (१।२।२१) यत्वम् । [वध्वासनम्] वध्वा आसनं = वध्वासनम् । ‘इवर्णादेरस्वे०' (१।२।२१) वत्वम् । प्रथमैक० सि । [नद्यर्थः] नद्या अर्थः = नद्यर्थः । ‘इवर्णादरस्वे०' (१।२।२१) यत्वम् । प्रथमैक० सि । [गौर्याराधः] गौरीमाराध्नोनीति गौर्याराधः । 'अच्' (५।१।४९) अच्प्र० → अ० । [अनुव्यचलत्] 'चल कम्पने' (९७२/१०५५) चल्, अनु-विपूर्व० । हयस्तन्या दिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'अड् धातोरादिहस्तन्यां चाऽमाडा' (४।४।२९) अडागमः । हे मुनयाचर] मुनि आमंत्रणे 'आमन्त्र्ये' (२।२।३२) सि । 'हस्वस्य गुणः' (१।४।४१) गुणः ए । 'चर भक्षणे च' (४१०) चर्, आयूर्व० । पञ्चमी हि । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'अतः प्रत्ययाल्लुक्' (४।२।८५) हिलोपः । हे साधवाचर साधु आमंत्रणे 'आमन्त्र्ये' (२।२।३२) सि | 'हस्वस्य गुणः' (१।४।४१) गुणः ओ । 'चर भक्षणे च' (४१०) चर्, आङ्पूर्व० । पञ्चमी हि । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'अतः प्रत्ययाल्लुक' (४।२।८५) हिलोपः । [नदी वहति नदी प्रथमैक० सि. | 'दीर्घङ्या०' (१।४।४५) सिलोपः । ‘वहीं प्रापणे' (९९६) वह । वर्त्त० तिव । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् ||छ।। एदैतोऽयाय ।।१।२।२३।। [एदैतोऽयाय] एच्च ऐच्च = एदैत्, तस्य = एदैतः, षष्ठी डस् । अय् च आय् च = अयाय, प्रथमैक० सि । 'अनतो लुप्' (१।४।५९) सिलोपः । [नयनम] 'णींग प्रापणे' (८८४) णी । 'पाठे धात्वादेर्णो नः' (२।३।९७)नी । नीयते = नयनम् । 'अनट्' (५।३।१२४) अनटप्र० → अन । 'नामिनो गुणोऽक्ङिति' (४।३।१) गुणः ए । अनेन अय् । प्रथमैक० सि । 'अतः स्यमोऽम्' (१।४।५७) अम् । [नायकः] ‘णींग प्रापणे' (८८४) णी । 'पाठे धात्वादेर्णो नः' (२।३।९७) नी । नयतीति नायकः । ‘णक-तृचौ' (५।१।४८) णकप्र० → अक । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धि: ऐ । अनेन आय् । वृक्षयेव वृक्ष सप्तम्येक० ङि । 'अवर्णस्येवर्णादिनैदोदरल' (१९२६) ए । एव अव्यउ । प्रथमैक० सि । 'अव्ययस्य' (३।२।७) सिलोपः । अनेन अय् । [रायैन्द्री] 'रांक दाने' (१०६९) रा । राति = ददाति माहात्म्यमिति रै । 'रातेः' (उणा० ८६६) डिद् ऐप्र० । 'डित्यन्त्यस्वरादेः' (२।१।११४) आकारस्य लोपः । इन्द्रो देवताऽस्या सा = ऐन्द्री । 'देवता' (६।२।१०१) अणप्र० । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः ऐ । 'अणजेयेकण-नञ्-स्नञ्-टिताम्' (२।४।२०) डीप्र० । 'अस्य ङ्यां लुक्' (२।४।८६) अकारस्य लोपः । राया द्रव्येणोपलक्षिता ऐन्द्री = रायैन्द्री । प्रथमैक० सि । दीर्घड्याव०' (१।४।४५) सिलोपः । अनेन आय् ||छ।। Jain Education Intemational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy