SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ अथ प्रथमाऽध्यायस्य द्वितीयः पाद: ।। इवर्णादरस्वे स्वरे य-व-र-लम् ।।१।२।२१।। [इवर्णाद:] इवर्ण आदिर्यस्याऽसौ इवर्णादिस्तस्य = इवादः, षष्ठी डस् । 'डित्यदिति' (१।४।२३) गुणः एंकारः । 'एदोद्भ्यां डसि-डसो रः' (१।४।३५) इस्० → ० । [अस्वे] न स्वः = अस्वः । ‘नञत्' (३।२।१२५) न० → अ०, तस्मिन् = अस्वे, सप्तम्येक० ङि । 'अवर्णस्येवर्णादिनैदोदरल' (१।२।६) ए. । स्वरे संराजते = शोभते इति स्वरस्तस्मिन = स्वरे, सप्तम्येक० ङि । [य-व-र-लम्] यश्च वश्च रश्च लश्च = यवरलम् । प्रथमैक० सि । अतः स्यमोऽम्' (१।४।५७) अम् । 'समानादमोऽतः' (१।४।४६) अमोऽकारस्य लुक् । [दध्यत्र] दधि प्रथमैक० सि । 'अनतो लुप्' (१।४।५९) सिलोपः । इदम् अस्मिन्नत्र | 'सप्तम्याः' (७।२।९४) त्रप्प० →त्र । 'क्व-कुत्रा-ऽत्रेह' (७।२।९३) अत्र निपातः । प्रथमैक० सि । 'दीर्घड्याब' (१।४।४५) सिलोपः । [नयेषा] नदी प्रथमैक० सि । ‘दीर्घड्याव्०' (१।४।४५) सिलोपः । एषा (१।२।१२) सूत्रवत् । [मध्वत्र मधु (११२।१) सूत्रवत् । प्रथमैक० सि । 'अनतो लुप' (१।४।५९) सिलोपः । अत्र प्रथमैक० सि । 'अव्ययस्य' (३।२७) सिलोपः । [वध्वासनम्] वधू (१।२१) सूत्रवत् । 'आसिक उपवेशने' (१११९) आस् । आस्यते इत्यासनम् । 'अनट्' (५।३।१२४) अनट्प्र० → अन । प्रथमैक० सि । वध्वा आसनं = वध्वासनम् । [पित्रर्थः] 'ऋक गतौ' (११३५) ऋ । अर्यते = उपार्यते गुणैरित्यर्थः । 'कमि-पु-गार्तिभ्यस्थः' (उणा० २२५) थप्र० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । पितुरर्थः = पित्रर्थः । [कादिः] क आदिर्यस्याऽसौ क्रादिः । प्रथमैक० सि । अनेन रत्वम् । [लनुबन्धः] लुदनुवंधो यस्याऽसौ लनुबन्धः । [लाकृतिः] लुकारस्येवाऽऽकृतिर्यस्याऽसौ लाकृतिः । अनेन सर्वत्र य-व-र-ल- कीजइ । [पचति] 'डुपचीए पाके' (८९२) पच् । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव । [दधीदम् दधि प्रथमैक० सि । 'अनतो लुप्' (१।४।५९) सिलोपः । इदम् प्रथमैक० सि । 'अनतो लुप्' (१।४।५९) सिलोपः । [मधु पिबति] मधु (१।२।१) सूत्रवत् । प्रथमैक० सि । 'अनतो लुप्' (१।४।५९) सिलोपः । ‘पां पाने' (२) पा | वर्त० तिव् । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव् । 'श्रौति-कृवु-धिवु-पा०' (४।२।१०८) पिवाऽऽदेशः । [तिरियङ्] तिरि अग्रे 'अशू गतौ च' (१०५) अश् । अञ्चतीत्यङ् । 'क्विप्' (५।१।१४८) क्विप्प्र० । 'अञ्चोऽनर्चायाम्' (४।२।४६) नस्य लोपः । प्रथमैक० सि । 'अचः' (१।४।६९) नोऽन्तः । 'युजश्च क्रुश्चो नो ङः' (२।१७१) इत्वम् ।। छ ।। इस्वोऽपदे वा ।।१२।२२।। [हूस्वः] ह्रस्वतीति हूस्वः । प्रथमैक० सि | 'सो रुः' (२।१।७२) स० → र० । [अपदे) न पर्द-अपदम् । 'नञत्' (३।२।१२५) न० → अ०, तस्मिन् । [वा] वा अव्यउ । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy