SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ श्री सिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । [तवौदनः ] तव (१।२।६) सूत्रवत् । 'उन्दै क्लेदने' (१४९१) उन्द् । उद्यते = क्लिद्यते घृतादिना इत्योदनः । 'उन्देर्नलुक् च' (उणा० २७१) अनप्र० नलोपश्च । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ. । [तवौपगवः ] तव (१।२।६) सूत्रवत् ! उपगो मांडियइ, *उपगतो गौर्यस्याऽसौ उपगुः । 'गोश्चान्ते ह्रस्वोऽनंशिसमासेयोबहुव्रीहौ' (२।४।९६) गो० गु० । उपगोरपत्यं = औपगवः । ' डसोऽपत्ये ' ( ६।१।२८) अणुप्र० । ' वृद्धिः स्वरेष्वादेर्जिणति तद्धिते' (७।४।१) वृद्धिः औ कीजइ । 'अस्वयम्भुवोऽव्' (७।४।७०) उकारस्य अव् । प्रथमै रु: ' (२।१।७२ ) २० । 'र: पदान्ते विसर्गस्तयोः ' (१।३।५३) विसर्गः । अनेन । । ३० [ दध्यैच्छत् ] दधि अग्रे 'इषत् इच्छायाम्' (१४१९) इष् । ह्यस्तन्या दिव् । 'तुदादेः श:' ( ३ | ४ |८१ ) शप्र० । ‘गमिषद्यमश्छः’ (४।२।१०६) पस्य छत्वम् । 'स्वरेभ्यः' (१| ३ | ३० ) छस्य द्वित्वम् । 'अघोपे प्रथमोऽशिटः ' (१।३।५० ) आद्यछस्य चत्वम् । 'स्वरादेस्तासु' (४।४।३१ ) इकारस्य ऐत्वम् । [ मध्वोदन: ] मधुना मिश्र ओदनः = मध्वोदनः । मधु ( १।२।१ ) सूत्रवत् । [ साध्वौषधम् ] 'उषू दाहे' (५२९) उप् । ओषति - दहति रोगानित्यौषधिः । 'उपेरधिः' (उणा० ६७५) अधिप्र० ओष आदेशः । ओषधेरिदं=औषधम् । 'तस्येदम्' ( ६ |३|१६० ) अण्प्र० । ( वृद्धिः स्वरेष्वादेर्जिणति तद्धिते (७।४।१) वृद्धिः औ । 'अवर्णवर्णस्य' (७।४।६८) इकारस्य लोपः ॥ छ ॥ ऊटा ||१।२।१३।। [ऊटा ] ऊट् तृतीयायाष्टा । [ धौतः ] 'धावूग् गति-शुद्धयोः' (९२०) धाव् । धाव्यते स्म = धौतः । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । प्रथमैक० सि । ‘अनुनासिके च च्छ्-वः शूट्' (४।१।१०८) व० ऊट् । अनेन । [धीतवान् ] 'धावूग् गति - शुद्धयोः' (९२०) धाव् । धावति स्म । 'क्तक्तवतू' (५।१।१७४) क्तवतुप्र० । प्रथमैक० सि । 'अनुनासिके च च्छ्-वः शूट् (४।१।१०८) वस्य ऊट् । अनेन औ । 'ऋदुदित: ' (१।४।७०) नोऽन्तः । ' अभ्वादेरत्वसः सौ' (१।४।९० ) दीर्घः । 'दीर्घड्याव् ० ' (१।४।४५) सिलोपः । पदस्य' (२।१।८९) तलोपः । [लौः ] 'लूग्श् छेदने' (१५१९) लू । लुनन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० इ । ‘नामिनोऽकलि-हलेः' (४।३।५१) लौ । ' ओदौतोऽवाव्' (१।२।२४) आव् । लावयतीति लौः । 'क्विप्' (५।१।१४८) क्विप्प्र० । 'णेरनिटि' (४।३।८३) णिग्लोपे 'अनुनासिके च च्छ-वः शूट्' (४।१।१०८) वस्य ऊट् । अनेन औ । प्रथमैक० सि । [पौः ] 'पूग्श् पवने' ( १५१८) पू । पुनन्तं प्रयुङ्क्ते । प्रयोक्तृव्यापारे णिग्' ( ३।४।२० ) णिग्प्र० इ । ‘नामिनोऽकलि-हलेः (४।३।५१) पौ । 'ओदौतोऽवाव्' (१।२।२४) आव् । पावयतीति पौः । 'क्विपू' (५।१।१४८) क्विप्प्र० । 'णेरनिटि' (४।३।८३) णिग्लोपे 'अनुनासिके० ' ( ४।१।१०८) वस्य ऊट् । अनेन औ । प्रथमैक० सि ।। छ । प्रस्यैषैष्योढोढ्यूहे स्वरेण || १ |२| १४ || [प्रस्यैषैष्योढोढ्यूहे ] प्र षष्ठी डस् । 'टा- डसोरिन - स्यौ' (१।४।५) स्य० । एषश्च एष्यश्च ऊढश्च ऊढिश्च ऊहश्व = एषैष्योढोढ्यूहम् । तस्मिन् एपैष्योढोढ्यूहे, सप्तम्येक० ङि । अवर्णस्ये० (१।२।६) ए. 1 = - [ स्वरेण ] स्वर तृतीयायाष्टा । 'टा-डसोरिन-स्यौ' (१।४।५) इन । 'अवर्णस्ये० ' (१।२।६) ए । 'रषृवर्णान्नो ण० ' (२।३।६३) न० → ण० । P * उप-समीपे गौर्यस्याऽसौ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy