SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ २६ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुंढिका । यत्वम् । 'स्वरे वा' (१।३।२४) यलोपः । [ऋतृभ्याम्] आ च ला च = ऋलु, ताभ्याम् = ऋतृभ्याम्, तृतीयाद्वि० भ्याम् । [वा] वा प्रथमा सि । [कृकारः, क्लृऋकारः, कृकारः] क्लुः ऋकार = कृकारः । प्रथमा सि । अनेन ? वा । पक्षे क्लृऋकारः । 'ऋतृति इस्वो वा' (१।२।२) ह्रस्वः । 'ऋस्तयोः' (१२५) ऋ = कृकारः । [क्ल्लकारः, क्ललकारः, क्लूकारः] क्लुः लकारः = क्ल्लकारः । प्रथमा सि । अनेन वा ल्लू । पक्षे क्लृलृकारः । 'ऋतृति ह्रस्वो वा' (१।२।२) ह्रस्वः । 'ऋस्तयोः' (१२५) ऋ = क्लृकारः ।।छ।। ऋतो वा, तौ च ।।१।२१४॥ [ऋतर] ऋत् षष्ठी ङस् । [वा] वा प्रथमा सि । [तौ] सश्च सश्च = तौ । 'त्यदादिः' (३१1१२०) एकशेषुः औ । [च] च प्रथमा सि । [ पिषभः, पितृऋषभः, पितृषभः] पितुः ऋषभः = पिषभः । अनेन ? । पक्षे पितृऋषभः । 'ऋतृति इस्वो वा' (१।२।२) ह्रस्वः । ‘समानानां तेन दीर्घः' (१।२।१) दीर्घः । [होत्ल्लकारः, होतृलृकारः, होतृकारः] होतुः लुकारः = होत्ल्लकारः । अनेन ऋ-लस्थाने ल्लू । पक्षे 'ऋतृति ह्रस्वो वा' (११२।२) ह्रस्वः । एवं होतृकारः । 'ऋस्तयोः' (१९२५) ऋ-लस्थाने ऋ छ।। ऋस्तयोः ।।१२।४।। [ऋस्तयोः] ऋ प्रथमा सि । 'सो रुः' (२११७२) स०→० । सश्च सश्च = तौ । 'त्यदादिः' (३१११२०) एकशेषः । तयोः = तयोः, षष्ठी ओस् । [कृषभः] क्लुः ऋषभः = कृषभः । अनेन लु-ऋस्थाने ऋ । [होतृकारः] होतुः लकारः = होतृकारः । अनेन ऋ-लस्थाने ऋ ।।छ।। अवर्णस्येवर्णादिनैदोदरल् ।।१।२।६।। [अवर्णस्य] अकारेणोपलक्षितो वर्णोऽवर्णस्तस्य = अवर्णस्य, षष्ठी डस् । [इवर्णादिना] इवर्ण आदिर्यस्याऽसौ इवर्णादिस्तेन = इवर्णादिना, तृ० टा, 'टः पुंसि ना' (१।४।२४) ना । [एदोदरल] एच्च ओच्च अर च अल च = एदोदरल | प्रथमाबहु० जस् । सूत्रत्वात् लोपः । [देवेन्द्रः] इन्द्रः (१।२।१) सूत्रवत् । देवानामिन्द्रो = देवेन्द्रः । प्रथमैक० सि । [तवेहा] युष्मद् । षष्ठी डस् । 'तव मम इसा' (२।१।१५) युष्मदो डसा सह तवाऽऽदेशः । 'ईहि चेष्टायां' (८५७) ईह् । ईहनमीहा । 'क्तेटो गुरोर्व्यञ्जनात्' (५।३।१०६) अप्र० । 'आत्' (२।४।१८) आप् → आ । 'समानानां तेन दीर्घः' .(१।२।१) दीर्घः । प्रथमैक० सि । दीर्घड्याव०' (१।४।४५) सिलोपः । मालेयम माला । प्रथमैक० सि । 'दीर्घङ्याब०' (१।४।४५) सिलोपः । इदम् । प्रथमैक० सि । 'अयमियं पुंस्त्रियोः सौ' (२।१।३८) इदं → इयमादेशः । Jain Education Intemational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy