SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ अथ प्रथमाऽध्यायस्य द्वितीयः पाद: ।। २७ [सेक्षते] तद् । प्रथमैक० सि | ‘आ ढेरः' (२।१।४१) द० → अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । 'तः सौ सः' (२।१।४२) तस्य स० । 'आत्' (२।४।१८) आप् । 'दीर्घड्याव्०' (१।४।४५) सिलोपः । ईक्षि दर्शने' (८८२) ईक्ष । वर्तमानायास्ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । [तवोदकम् तव उदकम् । प्रथमैक० सि० । [तवोढा] तव अग्रे ऊढा (१।२।१) सूत्रवत् । अनेन । [गंगोदकम] गंगाया उदकं = गंगोदकम् । प्रथमैक० सि । [सोढा] सा ऊढा = सोढा । ऊढा (१२।१) सूत्रवत् । [परमर्षिः परमश्चासौ ऋषिश्च = परमर्षिः । प्रथमैक० सि । 'सो रुः' (२।१७२) र० । 'रः पदान्ते विसर्गस्तयोः' (१।३।५३) विसर्गः । [तवारः] तव ऋकारः = तवर्कारः । प्रथमैक० सि । 'सो रुः' (२।१७२) र० । 'रः पदान्ते विसर्गस्तयोः' (१।३।५३) विसर्गः । [महर्षिः] अर्ह (५६४) - ‘मह पूजायाम्' (५६५) मह् । महतीति महत् । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२०) शतृप्र० → अत् । महांश्चासौ ऋषिश्च = महर्षिः । प्रथमैक० सि । 'जातीयैकार्थेऽच्वेः' (३।२७०) डा । 'डित्यन्त्यस्वरादेः' (२।१११४) अल्लोपः । [सर्कारण] सा ऋकारः = सर्कारः, तेन । [तवल्कारः] तव लकारः = तवल्कारः । प्रथमैक० सि । [सल्कारेण] सा लकारः = सल्कारस्तेन । तृ० टा | 'टा डसोरिन-स्यौ' (१।४।५) इन । 'अवर्णस्येवर्णादिनैदोद्रल' (१।२।६) ए । ‘रपृवर्णान्नो ण०' (२।३।६३) न० →ण० । अनेन सर्वत्र ए-ओ-अर्-अल् ॥ छ ।। ऋणे प्र-दशार्ण-वसन-कम्बल-वत्सर-वत्सरस्याऽऽर् ||१।२।७।। [ऋणे] ऋण सप्तमी ङि । [प्रदशार्णवसनकम्बलवत्सरवत्सतरस्याऽऽर] प्रश्च दशा च ऋणं च वसनश्च कम्बलश्च वत्सरश्च वत्सतरश्च-प्रदशार्णवसनकम्बलवत्सरवत्सतरम्, तस्य, षष्ठी डस्, ‘टा-डसोरिनस्यौ' (१।४।५) स्य । आर् प्रथमैक० सि । 'दीर्घड्याव्०' (१।४।४५) सिलोपः । 'नाम्नो नोऽनह्नः' (२।१।९१) इति दशन्शब्दस्य नलोपे सति अनेनैव आर् प्रादिका स्थाप्यन्ते । [प्रार्णम] प्रकृष्टं प्रगतं वा ऋणं = प्रार्णम् । [दशार्णम्] दशानामृणं = दशार्णम् । [ऋणार्णम 'ऋक् गतौ' (११३५) ऋ । इयर्त्ति कालवशादिति ऋणम् । 'घृ-वी-हा-शुष्युषि-तृषि-कृष्यर्तिभ्यः कित्' (उणा० १८३) कित् णप्र० । ऋणे ऋणं = ऋणार्णम् । [वसनार्णम्] वसनस्य ऋणं = वसनार्णम् । कम्बलार्णम] कम्बलस्य ऋणं = कम्बलार्णम् । [वत्सरार्णम वत्सरस्य ऋणं = वत्सरार्णम् । [वत्सतरार्णम] 'वद व्यक्तायां वाचि' (९९८) वद् । वदति मातरं दृष्ट्वेति वत्सः । 'मा-वा-वद्यमि-कमि-हनि-मानि Jain Education Intemational For Private & Personal use only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy