SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । [ प्रकृत्य ] 'डुकृंग् करणे' (८८८) कृ, प्रपूर्व० । प्रकरणं पूर्वं इति प्रकृत्य । 'प्राक्काले' (५।४।४७) क्त्वाप्र० । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । 'ह्रस्वस्य तः पित्कृति' (४|४|११३) तोन्तः । २० [ प्रहृत्य ] 'हंग् हरणे' (८८५) ह, प्रपूर्वक० । प्रहरणं पूर्वं इति प्रहृत्य । 'प्राक्काले' (५/४१४७) क्त्वाप्र० । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । ' ह्रस्वस्य तः पित्कृति' (४|४|११३) तोन्तः । [कर्त्तुम्] करणाय इति कर्त्तुम् । “क्रियायां क्रियार्थायां तुम् णकच् भविष्यन्ती ( ५।३।१३ ) तुम्प्र० । 'नाम गुणोऽक्डिति' (४।३।१) गुणः अर् । [हर्त्तुम्] हरणाय इति हर्त्तुम् । 'क्रियायां क्रियार्थायां०' (५।३।१३) तुम्प्र० । 'नामिनो गुणोऽक्ङिति' ( ४ | ३ |१) गुणः अर् । [यावज्जीवमदात् ] 'जीव प्राणधारणे' (४६५) जीव्, यावत्पूर्वक० । यावत् कालं जीव्यते इति यावज्जीवम् । यावतो विन्द- जीवः' (५।४।५५ ) णम्प्र० । प्रथमैकं० सि । 'अव्ययस्य' ( ३।२।७) सिलोपः । 'धुटस्तृतीयः ' (२।१।७६) त० द० । 'तवर्गस्य श्चवर्ग-ष्टवर्गाभ्यां योगे च-टवगौ' (१।३।६०) द० → ज० । ‘डुदांग्क् दाने' (११३८) दा । अद्यत० दि । 'सिजद्यतन्याम्' ( ३।४।५३) सिच्प्र० । 'पिवैति - दा भू-स्थः सिचो लुप् परस्मै न चेट्' (४।३।६६) सिच्लोपः । 'अड् धातोरादि०' (४।४।२९) अडागमः । [ स्वादुङ्कारं भुङ्क्ते ] स्वादोः करणं = स्वादुङ्कारं । स्वाद्वार्थाद् अदीर्घात्' (५।४।५३) ख्णम्प्र० । 'नामिनोऽकलि-हले ः ' ( ४ | ३ |५१) आर् । 'खित्यनव्ययाऽरुषो मोऽन्तो ह्रस्वश्च' ( ३।२।१११) मोन्तः । 'भुजंप् पालनाऽभ्यवहारयोः' (१४८७) भुज् । वर्तमानायाः ते । 'रुधां स्वराच्श्नो नलुक् च' ( ३।४।८२) श्नप्र० । ‘श्नाऽस्त्योर्लुक्’ (४।२।९० ) अलोपः । 'च-जः क- गम्' (२।११८६) ज० ग० । 'अघोषे प्रथमोऽशिट: ' (१/३/५०) ग० क० । 'म्नां धुड्वर्गे० (१।३।३९) न० ङ० ।। छ । गतिः ||१|१|३६| [अदः कृत्य] 'डुकृंग् करणे' (८८८) कृ, अदस् पूर्व० । अदःकरणं पूर्वं इति अदःकृत्य । 'प्राक्काले' (५१४१४७) क्त्वाप्र० । 'अनञः क्त्वो यप्' ( ३।२।१५४) यप्य । ह्रस्वस्य तः पित्कृति' (४|४|११३) तोऽन्तः । प्रथमैक० सि । 'अव्ययस्य ( ३।२।७) सिलोपः । 'अग्रहाऽनुपदेशेऽन्तरदः' (३1914) गतिसंज्ञा । अनेन अव्ययसंज्ञा । तस्य किं फलं ? 'अतः कृ- कमि कंस० ' (२।३ । ५) इत्यादिना रस्य स न ॥ छ ॥ अप्रयोगीत् ||१|१|३७|| [अप्रयोगी] 'युजूंपी योगे' (१४७६) युज्, प्रपूर्वक० । प्रयोजनं = प्रयोगः । ' भावा- ऽकर्त्री : ' ( ५।३।१८) घञ्प्र० → अ । 'लघोरुपान्त्यस्य ' ( ४ | ३ | ४) गुणः प्रयोज । 'क्तेऽनिटश्च - जो: क- गौ घिति' (४।१।१११ ) ज०म० । प्रयोगोऽस्याऽस्तीति प्रयोगी । 'अतोऽनेकस्वरात्' (७।२।६) इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । न प्रयोगी अप्रयोगी । ‘नञत्’ (३।२।१२५) न० अ० । प्रथमैक० सि । 'इन्- हन्- पूषाऽर्यम्णः शिस्योः ' (१।४।८७ ) दीर्घः ई । 'दीर्घड्याव्०' (१।४।४५) सिलोपः । 'नाम्नो नोऽनहः ' (२।१।९१) नलोपः । [ इत्] 'इंण्क् गतौ' (१०७५ ) इ । एत्यपगच्छतीति इत् । क्विप्प्र० । 'हस्वस्य तः पित्कृति' (४|४|११३ ) तोऽन्तः । 'धुटस्तृतीयः' (२।१।७६) त० द० । 'विरामे वा' (१।३।५१) द० त० । [ एधते ] 'एधि वृद्धौ' (७४१ ) एध् । वर्त्तमानायाः ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव्→ अ० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy