SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ १८ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । दिक्पूर्वस्य चाऽऽति' (७।२।१२४) पश्च आदेशः । [पुरः] पूर्वशब्दात् । पूर्वस्मिन् देशे वसति इति पुरः । 'पूर्वा-ऽवरा-ऽधरेभ्योऽसस्तातौ पुरवधश्चैषाम्' (७।२।११५) अस्प० - पूर्व → पुर आदेशः । [पुरस्तात्] पूर्वशब्दात् । पूर्वस्मिन् देशे वसति इति पुरस्तात् । 'पूर्वा-ऽवरा-ऽधरेभ्योऽसस्तातौ पुरवधश्चैषाम्' (७।२।११५) अस्तात्प० - पूर्व० → पुर् आदेशः । [उपरि] ऊर्ध्वशब्दात् । ऊर्ध्वं देशे वसति इति उपरि । 'ऊर्ध्वाद रि-रिष्टातौ उपश्चाऽस्य' (७।२११४) रिप्र०- ऊर्ध्व० → उप आदेशः । [उपरिष्टात्] ऊर्ध्वशब्दात् । ऊर्ध्वं देशे वसति इति उपरिष्टात् । 'ऊर्ध्वाद् रि-रिष्टातौ उपश्चाऽस्य' (७।२।११४) रिष्टात्प्र० - ऊर्ध्व० → उप आदेशः ।। [दक्षिणा] दक्षिणाशब्दात् । दक्षिणस्यां दिशि वसति इति दक्षिणा । 'वा दक्षिणात् प्रथमा-सप्तम्या आः' (७।२।११९) आप्र० । 'अवर्णवर्णस्य' (७।४।६८) आलोपः । [दक्षिणाहि] दक्षिणाशब्दात् । दक्षिणस्यां दिशि वसति इति दक्षिणाहि । 'आ-55ही दूरे' (७।२।१२०) आहिप्र० । 'अवर्णवर्णस्य' (७।४।६८) आलोपः । [दक्षिणेन] दक्षिणाशब्दात् । दक्षिणस्यां अदूरवर्त्तिन्यां दिशि वसति इति दक्षिणेन । 'अदूरे एनः' (७।२।१२२) एनप्र० । 'अवर्णेवर्णस्य' (७।४।६८) आलोपः । [द्वितीया करोति क्षेत्रम] क्षेत्रस्य द्वितीयं वारं कर्षणं करोति इति द्वितीया करोति क्षेत्रम् । 'तीय-शम्ब-बीजात कृगा कृषौ डाच्' (७।२।१३५) डाचप० । 'डित्यन्त्यस्वरादे:' (२।१।११४) अलोपः ।। शुक्लीकरोति अशुक्लं शुक्लं करोति इति शुक्लीकरोति । 'कृ-भ्वस्तिभ्यां कर्म-कर्तृभ्यां प्रागतत्तत्त्वे च्चिः' (७।२।१२६) च्चिप्र० । 'ईश्च्चाववर्णस्याऽनव्ययस्य' (४।३।१११) ई० । अग्निसात संपद्यते] अग्नि अग्रे संपद्यते । अनग्निः अग्निः संपद्यते इति अग्निसात् संपद्यते । 'जातेः सम्पदा च' (७।२।१३१) स्सात्प० । [देवत्रा करोति देवाय(देवे) अधीनं देयं करोति इति देवत्रा करोति । 'देये त्रा च' (७।२।१३३) त्राप्र० । [बहुशः] बहुशब्दात् । बहुभ्य इति बहुशः । 'बह्वल्पार्थात् कारकादिष्टा-ऽनिष्टे शस्' (७।२।१५०) शस्प्र० । [पथिद्वैधानि] द्विशब्दात् । द्वाभ्यां प्रकाराभ्यां इति द्वैधम् । 'तद्वति धण्' (७।२।१०८) धणप्र० → ध । वृद्धिः स्वरेष्वादेणिति तद्धिते (७।४।१) वृद्धिः द्वै । पथां द्वैधानि इति पथिद्वैधानि । जस्प० । 'नपुंसकस्य शिः' (१।४।५५) शि० → इ० । ‘स्वराच्छौ' (१।४।६५) नोन्तः । 'नि दीर्घः' (१।४।८५) दीर्घः । [संशयत्रैधानि] त्रिशब्दात् । त्रिभिः प्रकारैः इति त्रैधम् । 'तद्वति धण' (७।२।१०८) धणप्र० → ध । ‘वृद्धिः स्वरेष्वादेणिति तद्धिते (७।४।१) वृद्धिः त्रै । संशयानां त्रैधानि इति संशयत्रैधानि । जस्प० । 'नपुंसकस्य शिः' (१।४।५५) शि० → इ० । 'स्वराच्छौ' (१।४।६५) नोन्तः । ‘नि दीर्घः' (१।४।८५) दीर्घः ।। [पचतिरूपम्] पचतिशब्दात् । प्रशस्तं पचति इति पचतिरूपम् । 'त्यादेश्च प्रशस्ते रूपप्' (७।३।१०) रूपप्प० ॥छ।। विभक्ति-थमन्त-तसाद्याभाः ।।११।३३।। [विभक्तिथमन्तसाद्याभाः] थम् अन्ते येषां ते = थमन्ताः, तस आदिर्येषां ते = तसादयः, थमन्ताश्च तसादयश्च = Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy