________________
अथ प्रथमाऽध्यायस्य प्रथमः पाद: ।।
१७
[परेद्यवि पर अग्रे अहन् । परस्मिन् अहनि = परेद्यवि । 'सद्योऽद्य-परेद्यव्यहिन' (७।२।९७) परेधवि निपातः ।
[पूर्वेयुः] पूर्व अग्रे अहन् । पूर्वस्मिन् अहनि = पूर्वेद्युः । 'पूर्वा-ऽपरा-ऽधरो-त्तरा-ऽन्या-ऽन्यतरेतरादेधुस्' (७।२।९८) एद्युस्प्र० । 'अवर्णवर्णस्य' (७।४।६८) अलोपः ।
उभयेद्यः] उभय अग्रे अहन् । उभयस्मिन् अहनि = उभयेधुः । 'उभयाद् धुस् च' (७।२।९९) एद्युस्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः ।
[परुत पर अग्रे वर्ष । परस्मिन् वर्षे इति परुत् । ‘ऐषमः-परुत्-परारि वर्षे' (७।२।१००) परुत् निपातः । [परारि परतर अग्रे वर्ष । परतरस्मिन् वर्षे इति परारि । 'ऐषमः-परुत्-परारि वर्षे' (७।२।१००) परारि निपातः ।
ऐषमः] इदम् अग्रे वर्ष । अस्मिन् वर्षे इति ऐषमः । ‘ऐषमः-परुत्-परारि वर्षे' (७।२।१००) ऐषमः निपातः ।
[कर्हि किमशब्दात् । कस्मिन् काले इति कर्हि । 'अनद्यतने र्हिः' (७।२।१०१) र्हिप्र० । 'किमः कस्तसादौ च' (२/१४०) किम्० → क ।
[यथा] यद्शब्दात् । येन प्रकारेण इति यथा । 'प्रकारे था' (७।२।१०२) थाप्र० । 'आ द्वेरः' (२।१।४१) द० → अ० । 'लुगस्यादेत्यपदे' (२।१११३) अलोपः ।
कथम] केन प्रकारेण इति कथम् । 'कथमित्थम्' (७।२।१०३) कथं निपातः । [पञ्चधा] पञ्चन्शब्दात् । पञ्चभिः प्रकारैः इति पशधा । 'संख्याया धा' (७।२।१०४) धाप्र० ।
[ऐकध्यम्] एकशब्दात् । एकेन प्रकारेण इति ऐकध्यम् । वैकाद् ध्यमञ्' (७।२।१०६) ध्यमञ्प्र० । ‘वृद्धिः स्वरेष्वादेफिति तद्धिते' (७।४।१) वृद्धिः ।
द्वैधम द्विशब्दात् । द्वाभ्यां प्रकाराभ्यां इति द्वैधम् । 'द्वि-वेर्धमजेधौ वा' (७।२।१०७) धमप्र० । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः ।
[द्वधा] द्विशब्दात् । द्वाभ्यां प्रकाराभ्यां इति द्वेधा । 'द्वि-वेर्धमजेधौ वा' (७।२।१०७) एधाप्र० । 'अवर्णवर्णस्य' (७।४।६८) इलोपः ।
[पञ्चकृत्वः] पशन्शब्दात् । पञ्च वारा अस्य इति पञ्चकृत्वः । 'वारे कृत्वस्' (७।२।१०९) कृत्वस्प्र० । [द्विः] द्विशब्दात् । द्वौ वारौ अस्य इति द्विः । 'द्वि-त्रि-चतुरः सुच' (७।२।११०) सुचप्र० । [सकृत] एकशब्दात् । एकवारं = सकृत् । 'एकात् सकृच्चास्य' (७।२।१११) सकत निपातः । [बहुधा] बहुशब्दात् । बहुभिः प्रकारैः इति बहुधा । 'संख्याया धा' (७।२।१०४) धाप० ।
[प्राक्] 'अचू गतौ च' (१०५) अ, प्रपूर्वक० । प्राञ्चतीति विप प्राक् । क्विपप्र० । 'अशोऽनर्चायाम्' (४।२।४६) नलोपः । प्रथमैक० सि । दीर्घड्याव०' (१।४।४५) सिलोपः । 'च-जः क-गम्' (२/१८६) च० → क० । 'धुटस्तृतीयः' (२।१७६) क० → ग० । 'विरामे वा' (११३५१) ग० → क० । दिकः-प्राङ् दिग् रमणीया, प्राच्या दिश आगतः, प्राच्या दिशि वसति । देशः - प्राङ् देशो रमणीयः, प्राचो देशादागतः, प्राचि देशे वसति । कालः-प्राङ् कालो रमणीयः, प्राचः कालादागतः, प्राचि काले वसति ।
[दक्षिणतः] दक्षिणस्यां अदूरवर्त्तिन्यां दिशि आगतः इति दक्षिणतः । दक्षिणोत्तराच्चाऽतस्' (७।२।११७) अतस्प० । 'अवर्णवर्णस्य' (७।४।६८) आलोपः ।
[पश्चात्] अपरशब्दात् । अपरस्मिन् काले इति पश्चात् । 'अधरा-ऽपराच्चाऽऽत्' (७।२।११८) आत्प० । 'पश्चोऽपरस्य
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org