SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ अथ प्रथमाऽध्यायस्य प्रथमः पादः ।। १५ [चित्रगुः] चित्रा गौर्यस्याऽसौ चित्रगुः । 'गोश्चान्ते हस्वोऽनंशिसमासेयोबहुव्रीहौ' (२।४।९६) गो० → गु० । 'परतः स्त्री पुम्वत् स्त्र्येकार्थेऽनूङ्' (३।२।४९) पुम्वत् । चित्रा गौर्यस्येति विग्रहकालेऽर्थवत्समुदायभावान(त्) चित्रगुरित्यादौ नामत्वप्रतिषेधः प्रसजनीत्याशंक्याह एकपद्येन समुदायाऽभावात् । [राजपुरुषः] राज्ञः पुरुषः । [वनम्] 'वन संभक्तौ' (३२९) वन् । वनतीति वनम् । 'अच्' (५।१।४९) अच्प्र० → अ । प्रथमैक० सि । 'अतः स्यमोऽम्' (१।४।५७) अम् । 'समानादमोऽतः' (१।४।४६) अलोपः । [धनम्] 'धन शब्दे' (३२४) धन् । धनतीति धनम् । 'अच्' (५।१।४९) अच्प्र० → अ । प्रथमैक० सि । अतः स्यमोऽम्' (१।४।५७) अम् । 'समानादमोऽतः' (१।४।४६) अलोपः ।। छ ।। शिघुट ।।१।१।२८।। [शिर शि । प्रथमा सि । 'सो रुः' (२१११७२) र० । [घुट्] 'घुष शब्दे' (४९७) घुष । घोषतीति घुट् । 'दिद्युद्-ददृद्-जगज्जुहू०' (५।२।८३) विप्प० । 'अप्रयोगीत्' (१।१।३७) विप्लोपः । 'धुटस्तृतीयः' (२।१७६) ष० → ड० । 'विरामे वा' (१३५१) ड० → ट० । प्रथमैक० सि । 'दीर्घयाव-व्यञ्जनात् सेः' (१।४।४५) सिलोपः । [पद्मानि तिष्ठन्ति] पद्म । प्रथमा जस् । 'नपुंसकस्य शिः' (१।४।५५) शि० → इ० । 'स्वराच्छौ' (१।४।६५) नोन्तः । 'नि दीर्घः' (१।४।८५) दीर्घः । स्था (१।१।११) सूत्रवत् । वर्तमानाया अन्ति । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव् । 'श्रौति-कृवु-धिवु-पा-घा-मा-स्था०' (४।२।१०८) तिष्ठ आदेशः । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । ।। छ ।। पुं-स्त्रियोः स्यमौ जस् ।।११।२९।। [-स्त्रियोः] पुमांश्च स्त्री च = पुं-स्त्रियौ, तयोः = पुंस्त्रियोः, सप्तमीद्विवचनं ओस् । 'स्त्रियाः' (२१११५४) इय । पुम्स् इत्यत्र ‘पदस्य' (२।१।८९) सलोपः । 'शिड्हेऽनुस्वारः' (१३४०) अनुस्वारः । [स्यमौ जस] औश्च औश्च = औ । 'स्यादावसंख्येयः' (३।१११९) एकशेषः । सिश्च अम् च औश्च जस् च = स्यमौजस् । प्रथमावहु० जस् । सूत्रत्वात् जस्लोपः । [राजा-राजानम्-राजानौ तिष्टतः पश्य-राजानः] राजन् ४ अग्रे सि-अम्-प्र०द्वि० औ-जस् । अनेन घुट्संज्ञा । 'नि दीर्घः' (१।४।८५) दीर्घः । [सीमा-सीमानम्-सीमानौ तिष्ठतः-पश्य वा-सीमानः] 'षोंच अन्तकर्मणि' (११५०) षो । 'षः सोऽष्टयै०' (२।३।९८) सो । 'आत् सन्ध्यक्षरस्य' (४२११) सा । स्यति = क्षिपति विवादमिति सीमा । 'स्यतेरी च वा' (उणादि-९१५) मन्प्र०सी आदेशश्च । सि-अम्-प्र०-द्वि० औ - जस् । 'नि दीर्घः' (१।४।८५) दीर्घः । सामनी स्यति = क्षिपति विवादमिति सामन । 'स्यतेरी च वा' (उणादि-९१५) मनप्र० । प्रथमाद्वि० औ । 'औरीः' (१।४।५६) ई । [वेमनी] वेमन् (१।१।२२) सूत्रवत् । प्रथमाद्वि० औ । ‘औरीः' (१।४१५६) ई ।। छ ।। स्वरादयोऽव्ययम् ।।१।१।३०॥ [स्वरादयः] स्वर आदिर्येषां ते = स्वरादयः । प्रथमाबहु० जस् । 'जस्येदोत्' (१।४।२२) इ० →ए । 'एदैतोऽयाय' (१।२।२३) अय् । Jain Education Intemational For Private & Personal use only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy