SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयाऽध्यायस्य प्रथमः पादः ॥ अनादिव्यञ्जनलोपः । ‘ग-होर्ज:' ( ४।१।४०) ह० ज० । 'णेरनिटि' ( ४।३।८३) णिज्लोपः । ' स्वरादेस्तासु' (४।४।३१) वृ० ऊ० औ० ॥ छ ॥ भ्वादेर्दादेर्घः ||२।१।८३ ॥ [ भ्वादेर्दादेर्घः ] भू आदिर्यस्याऽसौ भ्वादिस्तस्य दादेः । घ प्रथमा सि । [दग्धा] 'दहं भस्मीकरणे' (५५२) दह् । श्वस्तनी ता । अनेन ह० घ० । 'अधश्चतुर्थात् त-थोर्धः' (२।१।७९) त० → ध० । 'तृतीयस्तृतीय- चतुर्थे' (१।३।४९) घ०ग० । = भ्वादेः । द आदिर्यस्याऽसौ दादिस्तस्य [दग्धुम्] दह् । दहनाय = दग्धुम् । 'क्रियायां क्रियार्थायां०' (५।३।१३) तुम्प्र० । अनेन ह० घ० । अधश्चर्था त-थोर्धः' (२।१।७९) त० ध० । 'तृतीयस्तृतीय- चतुर्थे' (१।३।४९) घ०ग० । १९७ = [दोग्धा ] 'दुहींक् क्षरणे' (११२७) दुह् । श्वस्तनी ता । 'लघोरुपान्त्यस्य' (४।३।४) गु० उ० ओ० । अनेन ह० → घ० । 'अधश्चतुर्थात् त-थोर्धः ' (२।१।७९) त० ध० । 'तृतीयस्तृतीय-चतुर्थे' (१।३।४९) घ० ग० । [दोग्धुम् ] 'दुहक् क्षरणे' (११२७) दुह् । दोहनाय 'दोग्धा' वत् । दोग्धुम् । 'क्रियायां क्रियार्थायां०' (५।३।१३) तुम्प्र० । शेषं = Jain Education International [अधाक्षीत् ] 'दहं भस्मीकरणे' (५५२) दह् । अद्यतनी दि । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । 'सः सिजस्तेर्दिस्योः' (४।३।६५) ईत् । 'व्यञ्जनानामनिटि' ( ४ | ३ | ४५) वृ० आ० । अनेन ह० घ० । 'गडदबादे० ' (२।१।७७) द० → ध० । 'अघोषे० ' (१।३।५०) घ० क० । 'नाम्यन्तस्था० ' (२।३।१५) स० ष० । क ष संयोगे क्ष । 'अड् धातो०' (४।४।२९) अट् । [गोधुक् ] 'दुहक् क्षरणे' (११२७) दुहू, गोपूर्व० । गां दोग्धीति क्विप् गोधुक् । 'अप्रयोगीत् ' (१।१।३७) क्विप्लोपः । प्रथमा सि । 'दीर्घड्याब्० ' (१।४।४५) सिलोपः । अनेन ह० घ० । 'ग-ड-द-बादेः ० ' (२।१।७७) द० ध० । 'धुटस्तृतीयः' (२।१।७६) घ०ग० । 'विरामे वा' (१।३।५१) ग० क० । [काष्ठधक्] काष्ठं दहतीति क्विप् काष्ठधक् । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्रथमा सि । 'दीर्घड्याव्’ (१।४।४५) सिलोपः । अनेन ह० घ० । 'ग-ड-द-बादेः ० ' (२1१1७७) द० ध० । 'धुटस्तृतीयः' (२।१।७६) घ० → ग० । 'विरामे वा' (१।३।५१) ग० क० । [ गोधुभ्याम् ] गां दुग्धः इति । [काष्ठधग्भ्याम् ] काष्ठानि दग्धः (दहतः ) इति । [ गोधुक्षु ] गां दुहन्तीति, षु । [काष्ठधक्षु ] काष्ठानि दहन्तीति तेषु । [दामलिट्] दामलिह्यतीति क्विप् । 'अतः' (४।३।८२) अलोपः । 'अप्रयोगीत् ' (१।१।३७) क्विप्लोपः । [ 'योऽशिति' ( ४ | ३ |८० ) यलोपः । ? ] 'य्वोः ०' (४|४|१२१ ) यलोपः । - [दृषद्युट् ] 'गुहौग् संवरणे' (९३५) गुह्, दृषद्पूर्व० । दृषदं गूहतीति । क्विप्प्र० । 'अप्रयोगीत्' (१।१।३७ ) क्विप्लोपः । दृषद्गुहमिच्छति । 'अमाव्ययात् क्यन् च' ( ३।४।२३) क्यन्प्र० य० । दृषद्गुह्यतीति क्विप् । 'अतः ' (४।३।८२) अलोपः । 'य्वोः प्वय्व्यञ्जने लुक्' (४|४|१२१) यलोपः । प्रथमा सि । 'दीर्घड्याब्० ' (१।४।४५) सिलोपः । 'हो धुट्-पदान्ते' (२।१।८२) ह०ढ० । 'ग-ड-द-बादे: ० ' (२1१1७७) ग० घ० । 'धुटस्तृतीयः' (२।१।७६) ० For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy