SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । [अत्वरिवम्, अत्वरिध्वम् ] त्वर् । अद्यतनी ध्वम् । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'सो धि वा ' ( ४ | ३ |७२ ) सिज्लोपः । ' अड् धातोरादि० ' ( ४।४।२९ ) अडागमः । १९६ [ववलिवे, ववलिध्वे ] 'वलि संवरणे' (८०७) वल् । परोक्षा ध्वे । 'द्विर्धातुः परोक्षा-डे० ' ( ४|१1१ ) द्विर्वचनं । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । स्क्रसृ-वृ-भृ-स्तु-दु०' (४१४१८१) इट् । [अवलिवम्, अवलिध्वम् ] वल् । अद्यतनी ध्वम् । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । 'स्ताद्यशितोऽत्रोणादेरिट्' ( ४/४/३२ ) इट् । 'सो धि वा ' ( ४१३ । ७२) सिज्लोपः । ' अड् धातोरादि० ' ( ४।४।२९) अडागमः । [लुलुविढ्वे, लुलुविध्वे ] 'लूग्श् छेदने' (१५१९) लू । परोक्षा ध्वे । 'द्विर्धातुः परोक्षा-डे० ' (४।१।१) द्विर्वचनं । ' ह्रस्वः' (४|१|३९) ह्रस्वत्वं । 'स्क्रसृ-वृ-भृ-स्तु द्रु०' (४|४|८१) इट् । [अलविवम्, अलविध्वम् ] लू । अद्यतनी ध्वम् । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ० । 'ओदौतोऽवाव्' (१।२।२४) अव् । 'सो धि वा' (४।३।७२ ) सिज्लोपः । 'अड् धातोरादि०' (४।४।२९) अडागमः । [घानिषीध्वम्] 'हनंक् हिंसा- गत्योः' (११००) हन् । आशीः सीध्वम् । 'स्वर - ग्रह-दृश - हन्भ्यः ० ' ( ३।४।६९) ञिट् । ‘ञि-णवि घन्’ (४।३।१०१ ) घन् आदेशः । ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । [आसिषीध्वम् ] 'आसिक् उपवेशने' (१११९) आस् । आशीः सीध्वम् । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् ।।छ।। हो धुट्-पदान्ते ।।२।१।८२ ॥ [हो धुट्-पदान्ते] ह् षष्ठी डस् । धुट् च पदान्तश्च = धुट्पदान्तम्, तस्मिन् = धुपदान्ते । सप्तमी ङि । [मधुलिट् ] 'लिहक् आस्वादने' (११२९) लिहू, मधुपूर्व० । मधु लेढीति क्विप् मधुलिट् । 'अप्रयोगीत् ' (१।१।३७ ) क्विप्लोपः । [मधुलिड्भ्याम् ] मधु लीढः इति क्विप् मधुलिहौ, ताभ्यां = मधुलिड्भ्याम् । तृतीया भ्याम् । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । अनेन ह० ढ० । 'तृतीयस्तृतीय- चतुर्थे' (१।३।४९) ढ०ड० । [मधुलिवत् ] मधुलिडिव । 'स्यादेरिवे' (७।१।५२ ) वत्प्र० । [मधुलिट्कल्पः] ईषदपरिसमाप्तो मधुलिट् । 'अतमबादेरीषदसमाप्ते कल्पप्-देश्यप्-देशीयर्' ( ७|३|११) कल्पपुप्र० → कल्प० । [ गुडलिण्मान् ] गुडं लेढीति क्विप गुडलिट् । 'क्विप्' (५।१।१४८) क्विप्प्र० । अप्रयोगीत् (१।१।३७) क्विप्लोपः । गुडलिहो विद्यन्ते यस्याऽसौ गुडलिण्मान् । 'तदस्याऽस्त्यस्मिन्निति मतुः ' (७।२।१) मतुप्र० । अनेन ह० ढ० । घुटस्तृतीयः ' (२।१।७६) ढ० ड० । 'प्रत्यये च ' (१।३।२) ड० ० । [ औजढत्] 'वहीं प्रापणे' (९९६) वह् । उह्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० । 'यजादि-वचेः किति' (४।१।७९) वृद् व० उ० । अनेन ह० ८० । 'अधश्चतुर्थात् तथोर्धः ' (२।१।७९) त० ध० । ' तवर्गस्य श्ववर्ग ० ' (१।३।६०) ध० ढ० । 'ढस्तड्डे' (१।३।४२) ढलोपः - पूर्विला दीर्घः । ऊढमारव्यत् । ' णिज्बहुलं नाम्नः कृगादिषु' (३।४।४२) णिच् । ‘त्रन्त्यस्वरादेः' (७।४।४३) अन्त्यस्वरादिलोपः । अद्यतनी दि । 'णि श्रि-दु-सु-कमः ० ' ( ३ | ४|५८) डप्र० → अ. । 'लोकात् ' (१।१।३) ऊपाठउ विश्लेषियइ । 'स्वरादेर्द्वितीयः' (४।१।४) द्विर्वचनु । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy