SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १८८ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । [अहन् शत्रुम्] 'हनंक हिंसा-गत्योः ' (११००) हन् । यस्तनी दिव् । 'व्यञ्जनाद् दे: सश्च दः' (४।३।७८) दिलोपः । 'अड् धातोरादिर्हयस्तन्यां चाऽमाङा' (४।४।२९) अडागमः ।। छ ।। रो लुप्यरि ।।२।१।७५॥ [लुप्यरि र् षष्ठी डस् । लुप् सप्तमी ङि । न र् = अर्, तस्मिन् । [अहरधीते] अहन् । द्वि० अम् । 'अनतो लुप्' (१।४।५९) अम्लोपः । अनेन रेफ । ‘इंड्क् अध्ययने' (११०४) इ, अधिपूर्व० । वर्त्त० ते । [अहर्ददाति] 'डुदांग्क् दाने' (११३८) दा. । वर्त० तिव् । 'हवः शिति' (४।१।१२) दा द्वित्वं । 'हूस्वः' (४।१।३९) दा० → द० । [अहःकाम्यति] अहः इच्छति । 'द्वितीयायाः काम्यः' (३।४।२२) काम्यप्र० । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' . (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२११११३) अलोपः । [अहर्वत्] अहरिव = अहर्वत् । ‘स्यादेरिवे' (७।१।५२) वत्प्र० । [अहोरूपम्] प्रशस्तमहः = अहोरूपम् । 'त्यादेश्च प्रशस्ते रूपप्' (७।३।१०) रूपप्प० । [अहोरात्रः] अहश्च रात्रिश्च = अहोरात्रः । 'ऋक्सामर्यजुष-धेन्वनडुह-वाङ्मनसा-अहोरात्र-रात्रिंदिव-नक्तंदिवा-ऽहर्दिवोर्वष्ठीवपदष्ठीवा-ऽक्षिभुव-दारगवम्' (७।३।९७) अत्समासान्तः । 'अवर्णेवर्णस्य' (७।४।६८) अन्त्यस्वरादिलोपः ।। छ ।। धुटस्तृतीयः ।।२१७६।। [धुटस्तृतीयः] धुट् षष्ठी डस् । तृतीय प्रथमा सि । [वाग] वच् । वक्तीत्येवंशीला वाक् । 'दिधुद-ददृ०' (५२४८३) विप्प्र०-वाच्० । अनेन क० → ग० । [विड] 'विशंत् प्रवेशने' (१४१५) विश् । विशतीति । प्रथमा सि । 'दीर्घड्याब०' (१।४।४५) सिलोपः । 'यजसृज०' १२।११८७) श० → ष० । अनेन । [विभिः ] 'विशंत् प्रवेशने' (१४१५) विश् । विशन्तीति विशस्तैः । 'यज-सृज-मृज०' (२।१।८७) श० → ष० । अनेन ष० → ड० । [सुदुग्] सुख (१८४९) 'दुःखण् तत्क्रियायाम्' (१८५०) दुःख-दुख, सुपूर्व० । 'चुरादिभ्यो णिच् (३।४।१७) णिच्प्र० । सुष्ठु दुःखयते(ति), सुष्टु दुखयते(ति) इति क्विप् । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्रथमा सि । 'दीर्घड्याब्०' (१।४।४५) सिलोपः । ‘पदस्य' (२।१८९) खलोपः । [सुदुग्भ्याम्] सुष्ठु दुःखयतः, सुष्ठु दु: खयतः इति क्विप् सुदुगौ, ताभ्याम् । [षष्ठः] षष् । षण्णां पूरणः = षष्ठः । षट्-कति-कतिपयात् थट्' (७।१।१६२) थट्प० → थ. । 'तवर्गस्य श्ववर्ग०' (११३१६०) थ० → ठ० ॥छ।। ग-ड-द-बादेश्चतुर्थान्तस्यैकस्वरस्यादेश्चतुर्थः स्थ्वोश्च प्रत्यये ।।२।१७७।। [गडदबादेः] गश्च डश्च दश्च बश्च = गडदबाः, गडदबा आदिर्यस्याऽसौ गडदबादिस्तस्य । [चतुर्थान्तस्य चतुर्थोऽन्ते यस्याऽसौ चतुर्थान्तस्तस्य । [एकस्वरस्यादेः] एकः स्वरो यस्याऽसौ एकस्वरस्तस्य = एकस्वरस्य । आदि षष्ठी डस् । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy