SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ अथ प्रथमाऽध्यायस्य चतुर्थः पादः ॥ [प्रियसखायः ] प्रियः सखा येषां ते । [ अतिसखीनि ] पूजितः सखा येषु कुलेषु तानि = अतिसखीनि । अथवा सखायमतिक्रान्तानि यानि कुलानि तानि अतिसखीनि । [प्रियसखीनि कुलानि तिष्ठन्ति पश्य वा ] प्रियः सखा येषु कुलेषु तानि । [सख्यौ ] सखायमिच्छति । 'अमाव्ययात् क्यन् च' ( ३।४।२३ ) क्यन्प्र० । 'दीर्घश्च्वि यङ् यक्-क्येषु च' (४।३।१०८) दीर्घः । सखीयतीति क्विप् । 'अतः ' ( ४।३।८२) अलोपः । य्वोः प्वय्व्यञ्जने लुक्' (४।४।२१) यलोपः । प्रथमा औ 'योऽनेकस्वरस्य' (२।१।५६ ) यत्वम् । [ सख्यः] सखायमिच्छति । 'अमाव्ययात् क्यन् च' ( ३।४।२३) क्यन्प्र० । 'दीर्घश्च्वि यङ् यक् - क्येषु च ' ( ४।३।१०८) दीर्घः । सखीयतीति क्विप् । 'अतः ' ( ४ | ३ |८२) अलोपः । प्वोः प्वय्व्यञ्जने लुक्' (४|४|१२१) यलोपः । प्रथमा जस् । 'योऽनेकस्वरस्य' (२।१।५६) यत्वम् ॥ छ ॥ ऋदुशनस्- पुरुदंशोऽनेहसश्च सेर्डाः || १ |४ |८४ | [ऋदुशनस्पुरुदंशोऽनेहसः] ऋच्च उशनाश्च पुर (रु) दंशा च अनेहा च ऋदुशनस्पुर(रु) दंशोऽनेहस्, तस्मात् । [ : ] स । षष्ठी स् । डा । प्रथमा सि । [अतिपिता ] पितरमतिक्रान्तो ऽतिपिता । [ अत्युशना ] उशनसमतिक्रान्तोऽसौ । [प्रियपुरुदंशा ] प्रिय: पुर (रु) दशो यस्याऽसौ । [ अत्यनेहा ] अनेहसमतिक्रान्तोऽसौ । [[कंसखा ] कुत्सितः सखा । [सुसखा] पूजितः सखा = सुसखा । [प्रियसखा ] प्रियः सखा यस्याऽसौ । [सखीः] सखायमिच्छति । 'अमाव्ययात् ० ' ( ३।४।२३) क्यन्प्र० । 'दीर्घश्च्वि-यङ्- यक्-क्येषु च' (४।३।१०८) दीर्घः । सखीयतीति क्विप् । 'अतः ' (४।३।८२) अलोपः । 'य्वोः प्वय्व्यञ्जने लुक्' (४|४|१२१) यलोपः । 'अप्रयोगीत्' (१1१।३७ ) क्विप्लोपः । प्रथमा सि ।। छ । १३१ नि दीर्घः ||१|४|८५ ।। [नि दीर्घः] न् । सप्तमी ङि । दीर्घ । प्रथमा सि । [स्रुक्, स्रुग्] सुग्घ्नमाचष्टे । 'णिज्बहुलं नाम्नः कृगादिषु' ( ३।४।४२) णिच्प्र० । ' त्रन्त्यस्वरादेः' ( ७।४।४३ ) अन्त्यस्वरादिलोपः । प्रथमा सि । 'दीर्घड्याब्०' (१।४।४५) सिलोपः । ' पदस्य ' (२।१।८९) घलोपः ।। छ ।। न्स्- महतोः ||१।४।८६ ॥ तयोः न्स्महतोः । [न्स्महतोः ] न्स् च महच्च = स्महतौ [ परमश्रेयान् ] परमः श्रेयान् यस्याऽसौ । [ अतिश्रेयान् ] श्रेयांसमतिक्रान्तोऽसौ । [प्रियश्रेयान् ] प्रिया ( : ) श्रेयांसो यस्याऽसौ । [प्रियपुमांसि कुलानि ] प्रियाः पुमांसो येषु कुलेषु तानि । Jain Education International = For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy