SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ १३० श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । उतोऽनडुच्चतुरो वः ।।१।४!८१।। [उतोऽनडुच्चतुरः] उत् । पष्ठी डस् !* अनडुच्च चतुर् च = अनडुच्चतुर्, तस्य = अनडुच्चतुरः, षष्ठी डस् । 'संस्ध्वंस्-क्वस्सनडुहो दः' (२।१९६८) ह० → द० । 'तवर्गस्य०' (११३१६०) द० → ज० । 'अघोषे प्रथमोऽशिटः' (१३५०) ज० → च० । [वः] व । प्रथमा सि । हे अनड्वन!] अनडुह् । 'आमन्त्र्ये' (२।२।३२) सि । हे प्राग् । 'अनडुहः सौ' (१।४।७२) नोऽन्तः । अनेन उ० → व० । दीर्घड्याव्०' (१।४।४५) सिलोपः । पदस्य (२१११८९) हलोपः । हे प्रियानड्वन्!] प्रिया अनड्वाहो यस्याऽसौ प्रियानड्वान्, तस्य संबोधनं हे प्रियानड्वन् । 'आमन्त्र्ये' (२।२।३२) सि । 'अनडुहः सौ' (१।४।७२) नोऽन्तः । अनेन उ०व० । 'दीर्घड्या' (१।४।४५) सिलोपः । ‘पदस्य' (२।१।८९) हलोपः । [हे अतिचत्वः!] चत्वारमतिक्रान्तो [यो] असौ, तस्य संबोधनं हे अतिचत्वः ! । 'आमन्त्र्ये' (२।२।३२) सि । अनेन उ० → व० । 'र: पदान्ते०' (१।३।५३) विसर्गः । हे प्रियचत्वः!] प्रियाश्चत्वारो यस्याऽसौ प्रियचत्वाः, तस्य संबोधनं हे प्रियचत्वः ! ।। छ ।। वाः शेषे ।।१।४।८२॥ [अनड्वान्] अनडुह् । प्रथमा सि । अनेन उ० → वा० । 'अनडुहः सौ' (१।४।७२) नोऽन्तः । 'दीर्घड्याव०' (१।४।४५) सिलोपः । ‘पदस्य' (२।१९८९) हलोपः । [अनड्वाही] अनडुह् । प्रथमा औ । अनेन उ० → वा० । [प्रियानड्वांहि कुलानि] प्रिया अनड्वाहो येषु कुलेषु तानि । प्रथमा जस् । 'नपुंसकस्य शिः' (१।४।५५) शि० → इ० । 'धुटां प्राक्' (१।४।६६) नोऽन्तः । अनेन वाऽऽदेशः । [प्रियचत्वाः] प्रियाश्चत्वारो यस्याऽसौ । [प्रियचत्वारौ]+ प्रियाश्चत्वारो ययोस्तौ । [प्रियचत्वारः] प्रियाश्चत्वारो येषां ते । [हे प्रियचत्वः !] चतुर् प्रियापूर्व० । प्रियाश्चतस्रो यस्याऽसौ प्रियचत्वाः, तस्य संबोधनं क्रियते हे प्रियचत्वः ! । 'आमन्त्र्ये' (२।२।३२) सि । 'परतः स्त्री पुम्वत्' (३।२।४९) पुंवद्धावः । 'उतोऽनडुच्चतुरो वः' (१।४।८१) उ० → व० । 'दीर्घड्या०' (१।४।४५) सिलोपः । 'रः पदान्ते०' (१।३।५३) विसर्गः । [प्रियानडुही कुले] प्रिया अनड़वाहो ययोः कुलयोः ते । प्रथमा औ । 'औरीः' (१९४१५६) ई० ।। छ । सख्युरितोऽशावत् ।।१।४।८३।। [सख्युरितोऽशावैत] सखि । षष्ठी ङस् । 'इवर्णादे०' (१।२।२१) यत्वं । 'खि-ति-खी-तीय उर्' (१।४।३६) उर् । इत् । षष्ठी ङस् । न शि(:) = अशि(:) । 'नञत्' (३।२।१२५) न० → अ०, तस्मिन् । ऐत् । प्रथमा सि । 'दीर्घड्याब्०' (१।४।४५) सिलोपः । 'धुटस्तृतीयः' (२।१७६) त० → द० । 'विरामे वा' (१।३५१) द० → त० । [सुसखायौ] शोभनः सखा ययोः, तौ । P. * अनुड्वांश्च चत्वारश्च । P.5 प्रियाश्चतस्तो यस्याऽसौ प्रियचत्वाः । प्रथमा सि । 'परतः स्त्री पुम्वत्' (३।२।४९) पुंवदावः । अनेन उ० → वा० । 'रात् सः' (२।१।९०) सिलोपः । रः पदान्ते०' (११३५३) विसर्गः । . P.+ प्रियाश्चतस्रो ययोस्तौ प्रियचत्वारी । प्रथमा औ । 'परतः स्त्री पुम्बत्०' (३।२।४९) पुंवदावः । अनेन उ० → वा० । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy