SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १३२ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढूंढिका । vvvvvvvvvvv डि..1 इन्हन् [अतिमहान्] महान्तमतिक्रान्तोऽसौ । [प्रियमहान्] प्रिया महान्तो यस्याऽसौ । [सुहिंसौ] 'हिसु हिंसायाम्' (१४९४) हिस्, सुपूर्व० । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) नोऽन्तः हिंस् । सुष्ठु हिंस्तः इति । [सुहिंसः] सुष्ठु हिंसन्तीति । [सुकंसौ] 'कसुकि गति-शातनयोः' (११२०) कस्, सुपूर्व० । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) नोन्तः कंस् । सुष्टु कंसू (?) कंसाते इति । [सुकंसः] सुष्टु कंसेति (?) (कंसंते) इति । [श्रेयान्] श्रेयांसमिच्छति । 'अमाव्ययात् क्यन् च' (३।४।२३) क्यन्प्र० । श्रेयस्यतीति क्विप् । 'अतः' (४।३।८२) अलोपः । 'य्वोः प्वयव्यञ्जने लुक्' (४।४।१२१) यलोपः । 'अप्रयोगीत्' (१1१1३७) क्विप्लोपः । [महान्] महान्तमिच्छति । 'अमाव्ययात् क्यन् च' (३।४।२३) क्यन्प्र० । महत्यतीति क्विप् । 'अतः' (४।३।८२) अलोपः । 'य्वोः प्वयव्यञ्जने लुक्' (४।४।१२१) यलोपः । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः ।। छ ।। इन्-हन्-पूषा-ऽर्यम्णः शि-स्योः ।।१।४।८७।। [इन्हन्पूषाऽर्यम्णः] इन् च हन् च पूषा च अर्यमा च = इन्हन्पूषाऽर्यमा, तस्य । [शिस्योः] शिश्च सिश्च = शिसी, तयोः । [दण्डीनि] दण्ड । दण्डो विद्यते यस्याऽसौ । 'अतोऽनेकस्वरात्' (७।२।६) इनप० । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । प्रथमा जस् । 'नपुंसकस्य शिः' (११४१५५) शि० → इ० । अनेन दीर्घः । [स्रग्वीणि] 'सृजत् विसर्गे' (१३४९) सृज् । सृज्यत इति स्रग् । 'क्रुत्-संपदादिभ्यः क्विप्' (५।३११४) क्विप्प्र० । १'अः सृजि-दृशोऽकिति' (४।४।१११) अकारु । ‘इवर्णादे०' (१४२१२१) रत्वं ? 'ऋत्विज्-दिश-दृश्-स्पृश्-स्रज्-दधृषुष्णिहो गः' (२।१।६९) ज० → ग० । स्रग् विद्यते येषां तानि । 'अस् तपो-माया-मेधा स्रजो विन्' (७।२।४७) विन्प्र० । प्रथमा जस् । 'नपुंसकस्य शिः' (१।४।५५) शि० → इ० । [वाग्मीनि कुलानि] वाच । वाग् विद्यते येषु तानि । 'ग्मिन्' (७१२१२५) ग्मिन्प्र० । 'च-जः क-गम्' (२११८६) च० → क० । 'धुटस्तृतीयः' (२।१७६) ग० । [भूणहानि] 'हनं हिंसा-गत्योः ' (११००) हन्, भूणपूर्व० । भूणं हतवन्ति = भूणहानि । 'ब्रह्म-भूण-वृत्रात् क्विप्' (५।१।१६१) क्विप्प० । 'अप्रयोगीत्' (१1१।३७) विप्लोपः । प्रथमा जस् । 'नपुंसकस्य०' (१।४।५५) शि० ।। [बहुवृत्रहाणि] वृत्रं हतवान् । ‘ब्रह्म-भ्रूण-वृत्रात् क्विप्' (५।१।१६१) क्विप्प० । 'अप्रयोगीत्' (१1१।३७) क्विप्लोपः । बहवो वृत्रहा (वृत्रहणो) येषु कुलेषु तानि । [भूणहा] भूणं हतवान् । [वृत्रहा] वृत्रं हतवान् । [बहुपूषाणि] बहुः पूषा येषु कुलेषु तानि । . [स्वर्यमाणि] शोभनोऽर्यमा येषु कुलेषु तानि । [दण्डिनौ] दण्डो विद्यते ययोस्तौ । (१) वृहन्यासे श० न्यासानुसन्धाने 'ऋत्विज्-दिश-दृश्-स्पृश्-सज्०' (२।१।६९) इत्यादि ज्ञापकनिपातनाद् रत्वे सज् । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy