SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ अथ प्रथमाऽध्यायस्य चतुर्थः पादः ।। १२५ [श्रेयान्] श्रेयस् । प्रथमा सि । अनेन नोऽन्तः । 'न्स्महतोः' (१।४।८६) दीर्घः । 'दीर्घड्याव्०' (१।४।४५) सिलोपः । 'पदस्य' (२।१८९) सलोपः । [सम्राट्] सम्राट् (१।३।१६) सूत्रवत् साध्यः ।।छ।। __युज्रोऽसमासे ।।१।४।७१।। [युज्रोऽसमासे] युजू षष्ठी डस् । 'इवर्णादे० ' (१।२।२१) रत्वं । समस्यन्ते = संक्षिप्यन्ते पदान्यत्रेति समासः । न समासोऽसमासः । 'नञत्' (३।२।१२५) न० → अ०, तस्मिन् । [युङ्] 'युजूंपी योगे' (१४७६) युज् । युनक्तीति क्विप् युङ् । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्रथमा सि । अनेन नोऽन्तः । 'युजञ्च-क्रुञ्चो नो ङः' (२।१७१) न० → हु० । ‘पदस्य' (२।१।८९) जलोपः । यौ युक्तः इति क्विप युऔ । 'अप्रयोगीत्' (१११३७) क्विपलोपः । प्रथमा औ । अनेन नोऽन्तः । 'म्नां धुड़वर्गेऽन्त्योऽपदान्ते' (१।३।३९) न० → ज० । युञ्जः] युञ्जन्तीति क्विप् युञ्जः । 'अप्रयोगीत्' (११३७) क्विपलोपः । प्रथमा जस् । अनेन नोऽन्तः । 'म्नां धुड्वर्गेऽन्त्योऽपदान्ते०' (१।३।३९) न० → अ० । युञ्जम] युनक्तीति क्विप् युञ्जम् । 'अप्रयोगीत्' (१1१1३७) क्विपलोपः । द्वितीया अम् । अनेन नोऽन्तः । 'म्नां धुड्वर्ग०' (१।३।३९) न० → ० । [युञ्जि कुलानि युञ्जन्तीति यानि कुलानि तानि = युञ्जि कुलानि । क्विप्प० । प्रथमा जस् । 'नपुंसकस्य शिः' (१।४।५५) शि० → इ० । अनेन नोऽन्तः । 'म्नां धुड्वर्गे०' (१।३।३९) न० → ज० । [बहुयुङ्] युनक्तीति क्विप् युङ् । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । ईषदपरिसमाप्तो युङ् = बहुयुङ् । 'नाम्नः प्राग् बहुर्वा' (७।३।१२) बहुप्र० । [अश्वयुक] अश्वान युनक्तीति क्वि अश्वयुक् । प्रथमा सि । 'दीर्घड्याब' (१।४।४५) सिलोपः । 'च-जः क-गम्' (२।१।८६) ज० → ग० । 'विरामे वा' (१३५१) ग० → क० । [अश्वयुञ्जौ] अश्वान युक्तः इति क्विप अश्वयुजौ । प्रथमा औ. । [अश्वयुजः] अश्वान् युञ्जन्तीति क्विप् अश्वयुजः । प्रथमा जस् । [युजमापना मुनयः] 'युजिंच समाधौ' (१२५४) युज् । युज्यते इति क्विप् = युक्, [तां](तं) = युजं । द्वितीया अम् । 'पदिंच गतौ' (१२५७) पद्, आङ्पूर्व० । आपद्यन्ते स्म । 'क्त-क्तवतू' (५1१1१७४) क्तप्र०→त । ‘रदादमूर्च्छ-मदः क्तयोर्दस्य च' (४।२।६९) त०-द० → न० | प्रथमा जस् । 'अत आ स्यादौ०' (१।४।१) अ० → आ० । 'समानानां०' (१।२।१) दीर्घः । मुनि । प्रथमा जस् । 'जस्येदोत्' (१।४।२२) इ० → ए० । 'एदैतोऽयाय' (१।२।२३) अय् । 'सो रुः' (२११७२) स० → र० । 'रः पदान्ते०' (१३५३) विसर्गः ।। [युजः पश्य] युञ्जन्तीति क्विप् युञ्जस्तान् । [युजी कुले] युडक्तः इति क्विप युजी । औ । 'औरीः' (१४/५६) औ० → ई० ।। छ ।। अनडुहः सौ ।।१।४।७२।। [अनडुहः] अनडुह् । षष्ठी डस् । P.; योजनं = युक् । 'भ्यादिभ्यो वा' (५।३।११५) विप्प० । 'अप्रयोगीत्' (१११३७) विप्लोपः । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy