SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ १२४ अचः ||१|४|६९ ॥ [प्राङ्] ' अश्रू गतौ च' (१०५) अञ्च् प्रपूर्व० । प्राञ्चतीति क्विप् । 'अञ्चोऽनर्चायाम् ' ( ४।२।४६) नलोपः । प्रथमा सि । अनेन नोऽन्तः । ' दीर्घड्याब्० ' (१।४।४५) सिलोपः । 'पदस्य' (२।१।८९) चलोपः । 'युजञ्च क्रुञ्चो नो ङः ' (२1१1७१ ) न० ङ० । 'समानानां०' (२1१19) दीर्घः । [अतिप्राङ् ] प्राञ्चमतिक्रान्तो यः स = अतिप्राङ् । प्रथमा सि । शेषं पूर्ववत् । [प्राची] प्राञ्चतः इति क्विप् प्राञ्चौ । ' अञ्चोऽनर्चायाम् ' ( ४।२।४६) नलोपः । प्रथमा औ । अनेन नोऽन्तः । 'तवर्गस्य०' (१।३।६०) न० अ० । [प्राञ्चः ] प्राञ्चन्तीति क्विप् प्राञ्चः । 'अञ्चोऽनर्थायाम्' (४।२।४६) नलोपः । प्रथमा जस् । अनेन नोऽन्तः । ' तवर्गस्य० ' (१।३।६०) न० ञ० श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । [प्राञ्चम् ] प्राञ्चतीति क्विप् प्राञ्चम् । 'अञ्चोऽनर्चायाम् ' ( ४।२।४६) नलोपः । द्वितीय अम् । अनेन नोऽन्तः । ' तवर्गस्य०' (१।३।६०) न० ज० [प्राञ्चि कुलानि] प्राञ्चन्तीति यानि कुलानि तानि प्राचि कुलानि । क्विप्प्र० । प्रथमा जस् । 'नपुंसकस्य शिः ' (१।४।५५) शि० इ० । अनेन नोऽन्तः । 'तवर्गस्य श्चवर्ग०' (१।३।६०) न० ञ० । [ प्राचः पश्य ] प्राञ्चन्तीति प्राञ्चस्तान् ॥ छ ॥ = ऋदुदितः ||१४|७० ॥ [ऋदुदितः] ऋच्च उच्च = ऋदुतौ ऋतौ इत् अनुबन्धो यस्याऽसौ ऋदुदित्, तस्य । [कुर्वन्] ‘डुकृंग् करणे' (८८८) कृ । करोतीति कुर्वन् । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२० ) शतृप्र० → अत् । ‘कृग्-तनादेरुः’ (३।४।८३) उ० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । 'अतः शित्युत्' (४।२।८९) अ० 'इवर्णादे० ' (१।२।२१) वत्वम् । उ० । [अधीयन्] 'इंक् अध्ययने' (११०४) इ, अधिपूर्व० अकृच्छ्रेणाऽधीतेऽधीयन् । 'धारीडोऽकृच्छ्रेऽतृश्' (५।२।२५) अतृप्र० अत् । प्रथमा सि । 'धातोरिवर्णोवर्णस्येयुव स्वरे प्रत्यये' (२।१।५० ) इय् । अनेन नोऽन्तः । 'समानानां०' ( १।२1१ ) दीर्घः । [सुदन् बालः] शोभना दन्ता यस्याऽसौ सुदन् । 'वयसि दन्तस्य दतृः' (७।३।१५१) दतृ - ददादेशः । प्रथमा सि । अनेन नोऽन्तः । '[चकृवान् ] 'डुकृंग् करणे' (८८८) कृ । चक्रे = चकृवान् । 'तत्र क्वसु- कानौ तद्वत्' (५।२।२) क्वसुप्र० वस् । 'द्विर्धातुः०', (४।१।१) द्विर्वचनं । 'ऋतोऽत्' (४।१।३८) ऋ० अकारु । 'क-डश्च- ञ्' (४।१।४६) क० च० । प्रथमा सि । अनेन नोऽन्तः । [विद्वान् ] 'विद्क् ज्ञाने' (१०९९) विद् । वेत्तीति विद्वान् । 'वा वेत्तेः क्वसुः' (५।२।२२) क्वसुप्र ० वस् । प्रथमा सि । अनेन नोऽन्तः । 'न्स्महतोः ' (१।४।८६) दीर्घः । Jain Education Intemational [गोमान् ] गो । गावो विद्यन्ते यस्याऽसौ गोमान् । तदस्याऽस्त्यस्मिन्निति मतुः ' ( ७।२।१) मतुप्र० । प्रथमा सि । अनेन नोऽन्तः । 'अभ्वादेस्त्वसः सौ' (१।४।९० ) दीर्घः । P. 5 ऋदुतौ इतौ अनुबन्धौ यस्य स । For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy