SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ अथ प्रथमाऽध्यायस्य चतुर्थः पादः ।। [कल्याण्यै ब्राह्मण्यै ] 'अण शब्दे' (२५९) अण्, कल्यपूर्व० 1 + कल्यमणतीति । 'कल्याण-पर्याणादय:' ( उणा० १९३ ) अप्र० (?) । 'नवा शोणादे: ' (२।४।३१) डीप्र० । 'अस्य ड्यां लुक्' (२।४।८६) अलोपः । चतुर्थी ङे । 'स्त्रीदूतः ' (१।४।२९) दै. । * योऽनेकस्वरस्य' (२।१।५६) यत्वम् ||छ || दध्यस्थिसक्थ्यक्ष्णोऽन्तस्यान् ||१|४|६३ ॥ [दध्यस्थिसक्थ्यक्ष्णः ] दधि च अस्थि च सक्थि च अक्षि च = दध्यस्थिसक्थ्यक्षि, तस्य = दध्यस्थिसक्थ्यक्ष्णः, षष्ठी डस्, अनेन सूत्रेण अन् । 'अनोऽस्य' (२।१।१०८) अलोपः । ' र पृवर्णान्नो ण० ' (२।३।६३) न० ० । [ अन्तस्यान् ] अन्त । षष्ठी इस् । 'टा- डसोरिन-स्यौ' (१।४।५) स्य । अन् । प्रथमा सि । 'दीर्घड्याव् ० ' (१।४।४५ ) सिलोपः । [दध्ना ] दधि । तृतीया टा । अनेनाऽन्तस्याऽन् । 'अनोऽस्य' (२।१।१०८) अलोपः । [अस्थ्ना] अस्थि । तृतीया टा । अनेनाऽन्तस्याऽन् । 'अनोऽस्य' (२।१।१०८) अलोपः । [सक्थ्ना] सक्थि । तृतीया टा । अनेनाऽन्तस्याऽन् । 'अनोऽस्य' (२।१।१०८) अलोपः । [ अक्ष्णा ] अक्षि । तृतीया टा । अनेनाऽन्तस्याऽन् । 'अनोऽस्य' (२।१।१०८) अलोपः । स्पृवर्णान्नो ० ' (२।३।६३) न०० । [ परमदध्ना ] परमं च तद् दधि च = परमदधि, तेन । [ परमास्ना ] परमं च तद् अस्थि च = परमास्थि, तेन. । [ परमसक्ना] परमं च तत् सक्थि च = परमसक्थि, तेन । [ परमाक्ष्णा ] परमं च तद् अक्षि च = परमाक्षि, तेन । १२१ [अतिदध्ना] दधि अतिपूर्व० । दधि अतिक्रान्तो यः स = अतिदधिः, तेन = अतिदध्ना । तृतीया टा । अनेनाऽन्तस्याऽन् । 'अनोऽस्य' (२।१।१०८ ) अलोपः । [ अत्यस्थना] अस्थि अतिपूर्व० । अस्थि अतिक्रान्तो यः स = अत्यस्थि: तेन = अत्यस्थ्ना । तृतीया टा । अनेनाऽन्तस्याऽन् । 'अनोऽस्य' (२।१।१०८) अलोपः । [ अतिसक्थ्ना ] सक्थि अतिपूर्व० । सक्थि अतिक्रान्तो यः स = अतिसक्थिः, तैनः = अतिसक्थ्ना । तृतीया टा । अनेनाऽन्तस्याऽन् । ‘अनोऽस्यं ' (२।१।१०८) अलोपः । [ अत्यक्ष्णा ] अक्षि अतिपूर्व० । अक्षि अतिक्रान्तो यः स अत्यक्षिः, तेन अत्यक्ष्णा । तृतीया टा । अनेनाऽन्तस्याऽन् । 'अनोऽस्य' (२।१।१०८) अलोपः । 'र-षृवर्णान्नो ० ' (२।३।६३) न० ० ॥ [ प्रियदध्ना ] प्रियं दधि यस्याऽसौ प्रियदधिः तेन । [प्रियास्थ्ना शुना ] प्रियं अस्थि यस्याऽसौ प्रियास्थिः तेन । [दृढसक्थ्ना शकटेन ] दृढं सक्थि यस्याऽसौ दृढसक्थिः तेन । [ स्थूलाक्ष्णा इक्षुणा ] स्थूलमक्षि यस्याऽसौ स्थूलाक्षिः, तेन । [प्रियास्थ्यै शुन्यै] प्रियं अस्थि यस्याः सा = प्रियास्थिः, तस्यै ।।छ|| + उणादिगणविवरणवृत्तौ 'कल्याण-पर्याणादयः' (उणा० १९३) कलिशब्दाद् आणक्प्रत्यये योऽन्तश्च इति निर्दिष्टः । * 'इवर्णादे० ' (१।२।२१) यत्वम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy