SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढूंढिका । aaaaaaaaaaaaaaaaaaaaam maan स्यादौ' (२०११) तिसृ आदेशः । पक्षे 'अनतो लुप' (१।४।५९) सिलोपः । [प्रियचतुष्कुलम्] प्रियाश्चतुरो यत् कुले तत् ।।छ।। वाऽन्यतः पुमांष्टादौ स्वरे ||१।४।६२।। [वाऽन्यतः] वा प्रथमा सि । अन्यस्मात् = अन्यतः । 'किमद्वयादिसर्वाद्यवैपुल्यबहोः पित् तस्' (७।२।८९) पित् तस्प्र० । [पुमांष्टादौ] पुम्स् । प्रथमा सि । 'पुंसोः पुमन्स्' (१।४।७३) पुमन्स् । 'न्स्महतोः' (१।४।८६) दीर्घः । 'दीर्घड्याब्०' (१।४।४५) सिलोपः । ‘पदस्य' (२।१८९) सलोपः । टा आदिर्यस्याऽसौ टादिस्तस्मिन् । 'नोऽप्रशानोऽनुस्वाराऽनुनासिकौ च पूर्वस्याऽधुट्परे' (११३८) न० → ष० - अनुस्वारागमः । [स्वरे] स्वर । सप्तमी ङि । 'अवर्णस्ये०' (११२१६) ए. । [ग्रामण्या, ग्रामणिना कुलेन] 'णींग प्रापणे' (८८४) णी । पाठे धात्वादेर्णो नः' (२।३।९७) नी- ग्रामपूर्व० । ग्रामं नयतीति क्विप् । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । 'ग्रामाऽग्रान्नियः' (२।३।७१) न० → ण० । ग्रामं नयति यत् कुलं तद् = ग्रामणि । 'क्लीबे' (२।४।९७) ह्रस्वत्वं । तृतीया टा । अनेन पुंबढ़ावे सति 'निमित्ताऽभावे नैमित्तिकस्याऽप्यभावः' (न्यायसं० १।२९) इति न्यायात् पुनरपि ईकारोऽवतिष्ठते, अन्यथा 'ट: पुंसि ना' (१।४।२४) इति ग्रामणिना स्यात् । 'क्विब्वृत्तेरसुधियस्तौ' (२।११५८) यत्वं । ग्रामणिना इत्यत्र 'अनामस्वरे नोऽन्तः' (१।४।६४) नोऽन्तः । 'ट: पुंसि ना' (१।४।२४) टा० → ना० न भवति । [ग्रामण्याम्, ग्रामणिनि कुले] ग्रामणी पूर्ववत् । सप्तमी ङि । 'निय आम्' (१।४।५१) आम् । 'क्विब्वृत्तेरसुधियस्तौ' (२।११५८) यत्वं । 'क्लीबे' (२।४।९७) हूस्वः । 'अनामस्वरे नोऽन्तः' (१।४।६४) नोऽन्तः । [कोः, कर्तृणोः] कर्तृ(२) । षष्ठी-सप्तमी ओस् । अनेन पुंबद्भावः । यत्र पुंवत् तत्र 'इवर्णाद०' (१२।२१) रत्वं । द्वितीये 'अनामस्वरे नोऽन्तः' (१।४।६४) नोऽन्तः । 'र-वर्णान्नो ण०' (२।३।६३) न० → ण० । [कर्तृणाम्] कुर्वन्तीति कर्तारः । ‘णक-तृचौ' (५।१।४८) तृचप्र० → तृ । 'नामिनो गुणोऽक्डिति' (४।३१) गु० अर्, तेषां = कर्तृणाम् । 'दिर्हस्वरस्याऽनु नवा' (११३।३१) विकल्पे द्वित्वम् । [अतिराया, अतिरिणा] रायमतिक्रान्तं यत् कुलं तद् = अतिरि । तृतीया टा । अनेन पुंवद्धावे सति ‘एदैतोऽयाय' (१।२।२३) आय् । पक्षे 'क्लीबे' (२।४।९७) ह्रस्वः । [अतिनावा, अतिनुना] नावमतिक्रान्तं यत् कुलं तद् = अतिनु । तृतीया टा । अनेन पुंवदावे सति 'ओदौतोऽवाव' (११२१२४) आव् । पक्षे 'क्लीबे' (२।४।९७) ह्रस्वः । [कुमा, कुमारिणे कुलाय] कुमारीवाऽऽचरति । 'कर्तुः क्विप्०' (३।४।२५) क्विप्प० । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । चतुर्थी डे । 'स्त्रीदूतः' । (१।४।२९) दै० → ऐ० । 'अनामस्वरे नोऽन्तः' (१।४।६४) नोऽन्तः । [पीलुने फलाय] पीलु | पीलोवृक्षस्य विकारः फलं । 'विकारे' (६।२।३०) अणप्र० । 'फले' (६।२५८) अण्लोपः । चतुर्थी उ । 'अनामस्वरे नोऽन्तः' (१।४।६४) नोऽन्तः । फल । चतुर्थी डे । 'डे-इस्योर्याऽऽतौ' (१।४।६) य । 'अत आ स्यादौ०' (१।४।१) दीर्घः । [शुचिनी कुले] शुचि । औ । ‘औरीः' (१।४।५६) ई । 'अनाम् स्वरे नोऽन्तः' (१।४।६४) नोऽन्तः । P.4 अन्यस्मात् = अन्यतः । 'आधादिभ्यः' (७।२।८४) तसुप्र० । P.5 'प्राण्यौषधि-वृक्षेभ्योऽवयवे च' (६।२।३१) अण्प्र० → अ । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy