SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ अथ प्रथमाध्यायस्य चतुर्थः पादः ॥ कर्त्तारमतिक्रान्तास्ते । [हे कर्त्तः] हे कर्त्तृ ! 'आमन्त्र्ये' (२।२।३२) सि । 'ह्रस्वस्य गुणः ' (१।४।४१) अर् । 'रः पदान्ते० ' (१/३/५३) विसर्गः ॥ छ ॥ अर्डी च || १ | ४ | ३९॥ [अ] च] अर् प्रथमा सि । 'दीर्घड्याव् ० ' (१।४।४५) सिलोपः । ङि सप्तमी ङि । 'डिर्डी' (१।४।२५) डी० औ० । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । च अव्यउ । प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलोपः । १०९ [पितरि ] पितृ । सप्तमी ङि । अनेन अर् । [पितरम् ] पितृ । द्वितीया अम् । अनेन अर् । [कर्तृणि कुले] कर्तृ । सप्तमी ङि । 'अनाम् स्वरे नोऽन्तः ' (१।४।६४) नोऽन्तः । [कर्तृणि कुलानि] कर्तृ । प्रथमा जस् । 'नपुंसकस्य शिः ' (१।४।५५) शि० इ० । 'स्वराच्छौ' (१।४।६५ ) नोऽन्तः । 'नि दीर्घः' (१।४।८५) दीर्घः ॥ छ। मातुर्मातः पुत्रेऽर्हे सिनाऽऽमन्त्र्ये ||१|४|४० | [मातुर्मातः] मातृ षष्ठी ङस् । 'ऋतो डुर्' (१।४।३७ ) डुर् । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । मात प्रथमा सि । सो रु ' (२।१।७२ ) स०र० । [पुत्रेs] पुत्र सप्तमी ङि । 'अवर्णस्ये० ' (१।२।६) ए० । अर्ह सप्तमी ङि । 'अवर्णस्ये० ' (१।२।६) ए० । [सिनाऽऽमन्त्र्ये] सि तृतीया टा । 'टः पुंसि ना' (१।४।२४) ना । आमन्त्र्यते इति आमन्त्र्यम् । तस्मिन् = आमन्त्र्ये, सप्तमी ङि । 'अवर्णस्ये० ' (१।२।६) ए. । [ हे गार्गीमात!] गर्ग । गर्गस्याऽपत्यं वृद्धं स्त्री । 'गर्गादेर्यञ्' (६।१।४२ ) यञ्प्र० । 'अवर्णेवर्णस्य' ( ७|४|६८ ) अलोपः । 'वृद्धिः स्वरेष्वादे० ' (७।४।१) वृद्धिः आ । 'यञो डायन् च वा' (२।४।६७) डीप्र० । 'अस्य ड्यां लुक्' (२।४।८६) अलोपः । 'व्यञ्जनात् तद्धितस्य' (२।४।८८ ) यलोपः । अग्रे मातृ, गार्गी माता यस्याऽसौ तस्य संबोधनं हे गार्गीमात! | 'आमन्त्र्ये (२।२।३२) सि । आमन्त्रणार्थाभिद्योतको हे शब्दप्रागुपादीयते, हे अव्यउ । [हे वात्सीमात!] वत्सस्याऽपत्यं वृद्धं स्त्री । 'गर्गादेर्यञ्' (६।१।४२) यञ्प्र० । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः आ । 'यत्रो डायन् च वा' (२।४।६७) डीप्र० । 'अस्य ड्यां लुक्' (२।४।८६) अलोपः । ‘व्यञ्जनात् तद्धितस्य' (२।४।८८) यलोपः । वात्सी माता यस्याऽसौ तस्य संबोधनं हे वात्सीमात! | 'आमन्त्र्ये' (२।२।३२ ) सि । सूत्रकार्यम् । [ हे गार्ग्यपितृक !] गार्ग्यः पिता यस्याऽसौ तस्य संबोधनं हे गार्ग्यपितृक ! | 'ऋन्नित्यदितः ' ( ७।३।१७१) कच्प्र० । [ हे मातः!] हे मातृ । 'आमन्त्र्ये ( २।२।३२) सि । 'ह्रस्वस्य गुणः ' (१।४।४१ ) सिना सह अर् । 'रः पदान्ते० ' (१।३।५३) विसर्गः । [हे गार्गीमातृके वत्से!] गार्गी माता यस्याः सा = गार्गीमातृका, तस्याः संबोधनं हे गार्गीमातृके । 'ऋन्नित्यदितः’ ( ७।३।१७१ ) कच्प्र० । 'आत्' (२।४।१८) आप् । 'समानानां०' (१।२।१) दीर्घः । 'आमन्त्र्ये' (२।२।३२) सि । 'एदापः ' (१।४।४२) सि सहुं एकारु । 'वत्सः ' (१।२।७) सूत्रवत् । 'आत्' (२।४।१८) आप् । 'आमन्त्र्ये' (२।२।३२) सि । 'एदापः ' (१।४।४२ ) सि सहुं एकारु । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy