SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ९८ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । [अतिस्त्रियौ पुरुषौ] स्त्रियमतिक्रान्तौ यौ = अतिस्त्रियौ । 'गोश्चान्ते०' (२।४।९६) ह्रस्वः । प्रथमाद्विव० औ । 'स्त्रियाः' (२191५४) इय् । [अतिस्त्रयः] स्त्रीमतिक्रान्तास्ते । [सहस्रयस्तिष्ठन्ति सह स्त्रीभिर्वर्त्तते । 'ऋन्नित्यदितः' (७।३।१७१) कच् प्राप्नोति, 'सहात् तुल्ययोगे' (७।३।१७८) इति निषेधः । सह स्त्रीः (स्त्री) येषां ते । ‘गोश्चान्ते०' (२।४।९६) ह्रस्वः । 'जस्येदोत्' (१।४।२२) ए. । [अतिस्त्रये स्त्रीमतिक्रान्तोऽतिस्त्रिः । 'गोश्चान्ते०' (२।४।९६) हूस्वस्तस्मै । [अतिस्त्रः] स्त्रीमतिक्रान्तोऽतिस्त्रिः । 'गोश्चान्ते०' (२।४।९६) हस्वस्तस्मात् । [अतिस्त्रीणाम] स्त्रीमतिक्रान्तोऽतिस्त्रिः । 'गोश्चान्ते०' (२।४।९६) हूस्वस्तेषाम् । [अतिस्त्रौ निधेहि स्त्रीमतिक्रान्तोऽतिस्त्रिः । 'गोश्चान्ते०' (२१४९६) इस्वस्तस्मिन् । 'दुधांगक धारणे च' (११३९) धा, निपूर्व० । पञ्चमी हि । 'हौ दः' (४।१।३१) आ० → ए० ।।छ।। जस्येदोत् ।।१।४।२२।। [जस्येदोत्] जस् सप्तमी ङि | एत् - ओत् । एच्च ओच्च = एदोत्, प्रथमा औ । सूत्रत्वात् लोपः । [मुनयः] मुनि । प्रथमा जस् । अनेन ए । 'एदैतोऽयाय' (१।२।२३) अय् । [साधवः] साधु । प्रथमा जस् । अनेन ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । [अतिस्त्रयः] स्त्रीमतिक्रान्ताः तेऽतिस्त्रयः । 'गोश्चान्ते०' (२।४।९६) ह्रस्वः । प्रथमा जस् । अनेन ए. ॥छ।। डित्यदिति ।।१।४।२३।। [डित्यदिति] ङ् इत् अनुबन्धो यस्याऽसौ डित्, तस्मिन् = डिति, सप्तमी ङि । द् इत् अनुवन्धो यस्याऽसौ दित्, न दित् = अदित् । 'नञत्' (३।२।१२५) न० → अ०, तस्मिन् = अदिति, सप्तमी ङि । [अतिस्त्रये स्त्रियमतिक्रान्तो योऽसौ अतिस्त्रिः । 'गोश्चान्ते०' (२।४।९६) इस्वस्तस्मै = अतिस्त्रये, चतुर्थी डे, अनेन ए. | ‘एदैतोऽयाय्' (१।२।२३) अय् । [साधोः] साधु । पञ्चमी उसि - अथवा षष्ठी डस् । अनेन ओ. । 'एदोद्भ्यां ङसि-ङसो रः' (१।४।३५) र० । 'रः पदान्ते०' (१।३।५३) विसर्गः । [अतिस्त्रेः आगतं स्वं वा] स्त्रियमतिक्रान्तो योऽसौ अतिस्त्रिः । 'गोश्चान्ते०' (२।४।९६) ह्रस्वस्तस्मात्, पञ्चमी डसि, अथवा तस्य, षष्ठी ङस् = अतिस्त्रेः । अनेन ए । 'एदोद्भ्यां०' (१।४।३५) र० । 'रः पदान्ते विसर्गस्तयोः' (१।३।५३) विसर्गः । आगत । प्रथमा सि । 'अतः स्यमोऽम्' (१।४।५७) अम् । स्व । प्रथमा सि । 'अतः स्यमोऽम्' (१।४।५७) अम् । [बुद्धयाः] वुद्धि । पञ्चमी डसि । 'स्त्रिया डितां वा दै-दास-दास-दाम्' (१।४।२८) ङसि० → दास् → आस् । अनेन एत्वं न भवति, पश्चात् 'इवर्णादरस्वे०' (१।२।२१) इत्यादिना य् । . [धेन्वाः आगतं स्वं वा] धेनु । पञ्चमी इसि-अथवा षष्ठी डस् । 'स्त्रिया डितां वा दै-दास-दास्-दाम्' (१।४।२८) ङसि-ङस् → दास् → आस् । अनेन ओत्वं न भवति, पश्चात् 'इवर्णादेरस्वे०' (१।२।२१) व्. । P. प्रथमा सि । 'अनतो लुप्' (१।४।५९) सिलोपः । 'धुटस्तृतीयः' (२१७३) त० → द० । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy