SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ अथ प्रथमाध्यायस्य चतुर्थः पादः ॥ [ शुची] शुचि । इतोऽक्त्यर्थात्' (२।४।३२) डीप्र० ई. । [पट्वी] पटु । 'स्वरादुतो गुणादखरोः ' (२।४१३५) डीप्र० टः पुंसि ना || १ |४| २४|| [टः ] टा पष्ठी डस् । 'लुगाऽऽतोऽनापः' (२।१।१०७) आलोपः । [पुंसि ] पुम्स् सप्तमी ङि । 'शिङ्-हेऽनुस्वारः ' (१।३।४० ) अनुस्वारः । [ ना ] ना प्रथमा सि । ॐ 'दीर्घड्याब्०' (१।४।४५) सिलोपः । [ अतिस्त्रिणा ] स्त्री अतिपूर्व० । स्त्रियमतिक्रान्तो योऽसौ अतिस्त्रिस्तेन = अतिस्त्रिणा । 'गोश्चान्ते० ' (२१४१९६ ) ह्रस्वत्वं । अनेन ना । 'र-पृवर्णान्नो ण एकपदेऽनन्त्यस्या ऽल-च-ट-तवर्ग-श-सान्तरे' (२।३।६३) न० ० । ई ॥ छ ॥ ९९ [अमुना ] अदस् । तृतीया टा । 'आ द्वेरः' (२।१।४१) स०अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । 'मोऽवर्णस्य' (२।१।४५) ५०म० । प्रागिनात् ' (२।१।४८) अ० → उ० । अनेन ना. । [बुद्धया] वृद्धि । तृतीया टा । 'इवर्णादेरस्वे० ' (१।२।२१) यत्वम् । [ धेन्वा ] धेनु । तृतीया टा । 'इवर्णादेरस्वे० ' (१।२।२१) वत्त्वम् ||छ || डिड || १ |४| २५ || [ङिर्डी] ङि प्रथमा सि । 'सो रु: ' (२।१।७२) स० [मुनौ] मुनि । सप्तमी ङि । अनेन डौ० [ साधौ ] साधु । सप्तमी ङि । अनेन डौ० [अतिस्त्रौ] स्त्रियमतिक्रान्तो योऽसौ अतिस्त्रिः । 'गोश्चान्ते० ' (२।४।९६) ह्रस्वस्तस्मिन् = अतिस्त्रौ, सप्तमी ङि । अनेन डौ । 'डित्यन्त्यस्वरादेः' (२1१1११४) अन्त्यस्वरादिलोपः । २० । डौ प्रथमा सि । सूत्रत्वात् लोपः । औ० । ' डित्यन्त्यस्वरादेः ' (२।१।११४ ) इलोपः । औ० । ' डित्यन्त्यस्वरादेः ' (२।१।११४) उलोपः । [बुद्धयाम् ] बुद्धि । सप्तमी ङि । 'स्त्रिया डितां वा दै दास-दास-दाम्' (१।४।२८) ङि → दाम् आम् । 'इवर्णादिरस्वे० ' (१।२।२१) यत्वम् । [ धेन्वाम् ] धेनु । सप्तमी ङि । 'स्त्रिया डितां वा दै दास् - दास-दाम्' (१।४।२८) ङिदाम् आम् । 'इवर्णादरस्वे० ' (१।२।२१) वत्वम् । Jain Education International ननु दामकरणसामर्थ्यादेव डौर्न स्यात्, किं व्यावृत्तावदितीति दर्शनेन ? न 'ङित्यदिति' (१।४।२३ ) इत्येत्वनिषेधकत्वेन तस्य चरितार्थत्वाद् डौः स्यादिति व्यावृत्तिः सफला, यथा 'इश्च स्था-द: ' ( ४ | ३ | ४१ ) इत्यत्र सिच्लोपविधायकत्वेन ह्रस्वकरणस्य चरितार्थत्वे गुणवाधकं कित्करणम्, किञ्च यथासंख्यार्थं 'स्त्रिया डितां०' (१।४।२८) इत्यत्र दाम्ग्रहणं कार्यम्, अन्यथा इदं सूत्रमन्यथा उत्तरं चान्यथा कार्यं स्यात्, तथा च गरीयसी रचना स्यादिति ॥ छ || केवलसखिपतेरौ ||१ |४ |२६|| [केवलसखिपतेरौ ] सखा च पतिश्च सखिपतिः, केवलं च तत् सखिपतिश्च = केवलसखिपति, तस्मात् केवलसखिपतेः, पञ्चमी ङसि । ' ङित्यदिति' (१।४।२३) इ० ए० । एदोद्भ्यां ङसि - ङसो रः' (१।४।३५) २० । औ प्रथमा सि । सूत्रत्वात् लोपः । P. 5ना प्रथमा सि । सूत्रत्वात् लोपः । For Private & Personal Use Only = www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy