________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
योग इति किम् ? केचित्तु पूर्वाय मासेनेत्यपि उदाहरन्ते, तन्मतसंग्रहार्थं योगग्रहणं,तदा पूर्वदिग्योगे पञ्चमी ।।छ।।
तीयं डित्कार्ये वा ।।१।४।१४।। [तीयं] तीय प्रथमा सि । अतः स्यमोऽम्' (१।४५७) अम् । 'समानादमोऽतः' (१।४।४६) अलोपः ।
[डित्कार्ये वा] ङ् इत् अनुबन्धो येषां ते = डितः । डितां कार्यं = डित्कार्य, तस्मिन = डित्कार्ये । सप्तमी ङि । 'अवर्णस्ये०' (११२।६) ए. । वा. ।
[द्वितीयस्मै, द्वितीयाय] द्वि । द्वयोः पूरणः = द्वितीयः । 'द्वेस्तीयः' (७।११६५) तीयप्र० । चतुर्थी डे । अनेन ।
[द्वितीयस्यै, द्वितीयायै] द्वि । द्वयोः पूरणी = द्वितीया । द्वेस्तीयः' (७।१।१६५) तीयप्र० । 'आत्' (२।४।१८) आप् । 'समानानां०' (१।२।१) दीर्घः । चतुर्थी डे । 'आपो डितां यै-यास्यास्-याम्' (१।४।१७) यै । 'सर्वादेर्डस्पूर्वाः' (१।४।१८) डसपूर्व० यै । 'डित्यन्त्यस्वरादेः' (२११।११४) आलोपः । अनेन ।
[तृतीयस्मै, तृतीयाय] त्रि । त्रयाणां पूरणी(णः) = तृतीया(यः) । 'त्रेस्तृ च' (७।१।१६६) तीयप्र० - त्रि० → तृ आदेशः । चतुर्थी डे । अनेन ।
द्वितीयकाय] द्वितीयः पूर्ववत् । कुत्सितोऽल्पोऽज्ञातो वा द्वितीय = द्वितीयकः । 'प्राग् नित्यात् कप्' (७।३।२८) कप्प्र० → क० । चतुर्थी डे । 'डे-डस्योर्याऽऽतौ' (१।४।६) य । ‘अत आः स्यादौ जस्-भ्याम्-ये' (१।४।१) अ० → आ० ।
[तृतीयकाय] कुत्सितोऽल्पोऽज्ञातो वा तृतीयः = तृतीयकः । 'कुत्सिता-ऽल्पा-ऽज्ञाते' (७।३।३३) कप्प्र० → क. । चतुर्थी डे । 'डे-डस्योर्याऽऽतौ' (१।४।६) य । 'अत आ स्यादौ जस्-भ्याम्-ये' (१।४।१) अ० → आ० ।
[द्वितीयिकायै] कुत्सिता-अल्पा-अज्ञाता वा द्वितीया = द्वितीयिका । 'स्व-ज्ञा-ऽज-भस्त्राऽधातुत्ययकात्' (२।४।१०८) इत्यादिना इत्वं विकल्पे, पक्षे 'ड्यादीदूतः के' (२।४।१०४) ह्रस्वत्वम् ।
[पटुजातीयाय पटु मांडियइ । पटुः प्रकारोऽस्य = पटुजातीयः । अत्र तीय इति समुदायसार्थकं परं लाक्षणिकत्वात् न भवति । 'प्रकारे जातीयर' (७।२७५) जातीयप० → जातीय भवति ।
[मुखतीयाय] मुख मांडियइ. । मुखात् = मुखतः । 'आधादिभ्यः' (७।२।८४) तसुप्र० → तस् । मुखतो भवः = मुखतीयः । 'गहादिभ्यः' (६।३।६३) ईयप्र० । 'प्रायोऽव्ययस्य' (७।४।६५) अस्लोपः ।।
[पार्श्वतीयाय] पार्थ्यात् = पार्श्वतः । 'आद्यादिभ्यः' (७।२।८४) तसुप्र० → तस् । पार्श्वतो भवः = पार्श्वतीयः । 'गहादिभ्यः' (६।३।६३) ईयप्र० । 'प्रायोऽव्ययस्य' (७।४।६५) अस्लोपः ।।छ।।
अवर्णस्याऽऽमः साम् ।।१।४।१५।। [अवर्णस्याऽऽमः साम्] अवर्ण षष्ठी डस् । 'टा-डसोरिन स्यौ' (१।४।५) स्य । आम् षष्ठी डस् । साम् प्रथमा सि । 'दीर्घड्याब्०' (१।४।४५) सिलोपः । परस्पराद्यामः स्थाने सामादेशे तत्रैव सामादेश एवोच्यत, परोक्षादेशस्तु आम् धातोर्विधीयमानः सर्वादेर्न भवति, 'कर्तुः क्विप०' (३।४।२५) इति क्विप्प्रत्ययान्ततायां संभवेऽपि स्यादेरित्यधिकारान्निरस्यत इत्याह-षष्ठी आम् ।
सर्वेषाम्] सर्व । षष्ठी आम् । अनेन साम् । 'एद् बहुस्भोसि' (१।४।४) ए । 'नाम्यन्तस्था०' (२।३।१५) स० → ष० ।
[विश्वेषाम्] विश्व । षष्ठी आम् । अनेन साम् । ‘एद् बहुस्भोसि' (१।४।४) ए । 'नाम्यन्तस्था०' (२।३।१५) स० →
ष०।
[सर्वासाम्] सर्वं । 'आत्' (२।४।१८) आप् । 'समानानां तेन दीर्घः' (१।२।१) दीर्घः । षष्ठी आम् । अनेन साम् ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org