SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । नेमा-ऽर्ध-प्रथम-चरम-तया-ऽया-ऽल्प-कतिपयस्य वा ।।१।४।१०।। [नेमाऽर्धप्रथमचरमतयाऽयाऽल्पकतिपयस्य] नेमश्च अर्धश्च प्रथमश्च चरमश्च तयश्च अयश्च अल्पश्च कतिपयश्च = नेमाऽर्धप्रथमचरमतयाऽयाऽल्पकतिपयम्, तस्य । वा] वा अव्यउ । [द्वितये, द्वितयाः] द्वि । द्वी अवयवौ येषां ते = द्वितये - द्वितयाः । 'अवयवात् तयट' (७।११५१) तयट्प्र० → तय० । प्रथमा जस् । [त्रितये, त्रितयाः] त्रि । त्रयोऽवयवा येषां ते = त्रितये-त्रितयाः । 'अवयवात् तयट्' (७।१।१५१) तयट्प्र० → तय० । प्रथमा जस् । [द्वये, द्वयाः] द्वि । द्वौ अवयवा(वौ) येषां ते = द्वये-द्वयाः । 'द्वि-त्रिभ्यामयट् वा' (७।१।१५२) अयट्प्र० → अय० । 'अवर्णेवर्णस्य' (७।४।६८) इलोपः । प्रथमा जस् । [त्रये, त्रयाः] त्रि । त्रयोऽवयवा येषां ते = त्रये-त्रयाः । 'द्वि-त्रिभ्यामयट् वा' (७।१।१५२) अयट्प्र० → अय० । 'अवर्णवर्णस्य' (७।४।६८) इलोपः । प्रथमा जस् । ' [अल्पे, अल्पाः] 'अली भूषण-पर्याप्ति-वारणेषु' (९१९) अल् । अलते = भूषयति स्रो(स्तो)कतामित्यल्पं । 'भा-पाचणि-चमि-विषि-सृ-पृ-तृ-शी-तल्यलि-शमि-रमि-वपिभ्यः पः' (उणा० २९६) पप्र० । प्रथमा जस् । कतिपये, कतिपयाः] अयि (७९०) - वयि (७९१) - ‘पयि गतौ' (७९२) पय, कतिपूर्व० । कति पयन्ते = कतिपयेकतिपयाः । 'लिहादिभ्यः' (५।१।५०) अच्प्र० । प्रथमा जस् । [परमनेमे, परमनेमाः] परम-नेम । परमाश्च ते नेमे च = परमनेमे - परमनेमाः । सर्वत्र अनेन इर्वा । [अतिनेमाः] नेममतिक्रान्तास्तेऽतिनेमाः । [अर्धकाः] अर्धा एव = अर्धकाः । स्वार्थ कप्र० । विभाषेति व्यवस्थितं मर्यादानतिक्रान्तं प्रयोगजातं विशेषेण भाषते ।।छ।। द्वन्द्वे वा ।।१।४।११।। [द्वन्द्वे] द्वि मांडणीयइ । द्वे द्वे = द्वन्द्वं । 'द्वन्द्वं वा' (७।४।८२) द्वन्द्वं निपात्यते, तस्मिन् । [वा] वा प्रथमा सि । 'अव्ययस्य' (३१२१७) सिलोपः । [पूर्वोत्तरे, पूर्वोत्तराः] पूर्वे च उत्तरे च = पूर्वोत्तरे-पूर्वोत्तराः । [कतरकतमे, कतरकतमाः] कतरे च कतमे च = कतरकतमे-कतरकतमाः । [दन्तकतमे, दन्तकतमाः] दन्ताश्च कतमे च = दन्तकतमे-दन्तकतमाः । [परमकतरकतमे, परमकतरकतमाः] कतरे च कतमे च = कतरकतमे । परमाश्च ते कतरकतमे च = परमकतरकतमेपरमकतरकतमाः । [प्रियकतरकतमाः] प्रियाः कतरकतमे येषां ते = प्रियकतरकतमाः । [वस्त्रान्तर-वसनान्तराः] वस्त्रमन्तरं येषां ते, वसनमन्तरं येषां ते, वस्त्रान्तराश्च वसनान्तराश्च = वस्त्रान्तर-वसनान्तराः । उष्यतेऽस्मिन्निति वसनं = गृहं-वस्त्रवाचकत्वे हि समानार्थे हि एकशेषः स्यात् । अथवा अन्तर् शब्द एकत्र बहिर्योगो(गे)ऽन्यत्र च उपसंख्याने इत्यनयोर्भेदः ॥छ।। Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy