SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ रामचन्द्रसूरिविरचितं अस्माभिः प्रतिपक्षरोषपरुषैः क्षिप्ताः स्थ यनिष्ठुरं तद्यूयं सहत कुधो हि भिदुराः पाल्येषु पुण्यात्मनाम् ॥१२॥ ( मैत्रेयः सलज्जमधोमुखो भवति । ) विजयवर्मा - ( विमृश्य ) सुनन्द ! कोऽयं यक्षाधिराजस्योपहारविधेर्विलम्बः १ । ( प्रविश्य ) ७० कपिञ्जल : - देव ! सर्वमपि प्रगुणं पूजोपकरणम्, किमु - तोपहारपुरुषः कथमपि न संघटितः । विजयवर्मा - ( सविषादं ) सुनन्द ! असंपादितोपयाचितानामस्माकमुपस्पर्शनमात्रमप्यनुचितम् । तद्विचिन्तय कम प्युपहारसंघटनोपायम् । मैत्रेय: ― पुण्यप्रसूतजन्मानश्चण्डालव्यालसङ्गताम् । मांसरक्तमयीं देवाः किं बलिं स्पृहयालवः ? ।। १३ ।। ततः कोऽयं भवद्भिर्विचारवन्ध्यमनसां दुर्मेधसां पन्थाः समुपास्यते ? । अपि च अक्रूरं श्रेयसे कर्म क्रूरमश्रेयसे पुनः । इति सिद्धे पथि करं श्रेयसे स्पृशतां भ्रमः ॥ १४ ॥ विजयवर्मा - कुरशास्रमवारितैरस्माभिर्योऽयमेकः प्रतिज्ञातो विधिः स प्रमाणमस्तु । अतः परं पुनर्यदभिधास्यते तदनुष्ठास्यामः । १ क- 'विधिविलम्बः' इति । १२ ख-' संघटते ' इति ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy