SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ कौमुदीमित्राणन्दम् । ( प्रविश्य ) प्रतीहारः - देव ! अमात्येन कामरतिना प्रेषितः पुरुषो द्वारि वर्तते । ६ अ ] विजयवर्मा - ( साशङ्कं ) शीघ्रं प्रवेश्यताम् । ( प्रविश्य पुरुषः प्रणम्य लेखमर्पयति । ) सुनन्दः - ( गृहीत्वा वाचयति । ) स्वस्ति रङ्गशालातो महामात्य श्रीकामरतिर्मण्डलेश्वरं विजयवर्माणं संबोध्य कार्यमादिशति । यथा, यदि मदीयं कमप्युपकारलेशं स्मरसि तदा यदयमषडक्षीणं किमपि विज्ञपयति संदेशहरो दुर्मुखस्तदचिरादतिनिगूढमादधीथा इति । विजयवर्मा - दुर्मुख ! कथय किमपि कर्णे यदमात्यः समादिष्टवान् । ( दुर्मुख उत्थाय कर्णे एवमेव । ) विजयवर्मा— कामरतिवचसा वयमात्मीयं शिरोऽपि समर्पयामः । एतावतः पुनरर्थस्य का कथा ? । किचएकेनैवाधुनाऽस्माकमेतेन ननु कर्मणा । १ ७१ मवी यक्षच संतोषपरिपोषं प्रयास्यति ॥ १५ ॥ ( पुनः कपिलं प्रति ) यदयं दुर्मुखः समर्पयति तत्सुगृहीतं कुरु । ( पुनः कर्णे एवमेव । ) ( सदुर्मुखः कपिञ्जलो निष्क्रान्तः । ) ( नेपथ्ये ) भो भोः ! उपवनचारिणः ! संपने निःशेषेऽप्युपहारोप Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy