SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ६ अङ्कः ] कौमुदीमित्राणन्दम् । ६७ ते च मे युष्मदायत्ताः किं ब्रुवेऽहमतः परम् १ ॥ ५ ॥ मैत्रेयः - किमेवमादिशन्ति मण्डलेश्वरपादाः १, धात्री रैकधुरबाहुषु किं नृपेषु पुष्णाति भद्रमुदरम्भरिरध्वनीनः १ । युष्मादृशान् घटयितुं विधिरुन्मदिष्णुः श्रेयांसि तत्र पुनरौपयिकं स्थितोऽहम् ॥ ६ ॥ सुनन्दः - ( साश्चर्य) देव ! सेयं महत्त्वस्य गाम्भीर्यस्य च परा काचिदुपनिषत् | विजयवर्मा - माहात्म्यदर्पसर्पमसंस्पृशन्तो यत्किञ्चिदपि समादिशत यूयम् । अहं पुनस्तत्रभवतो भवतो विना प्राणितमात्मनो विधेरप्यविधेयमाकलयामि । मैत्रेयः - रत्नाकराधीश्वर ! संपत्तिर्वा विपत्तिर्वा रोहन्ती दैवमीक्षते । एवमप्यर्थितान्येषु पुंसां लैब्याय केवलम् ॥ ७ ॥ सुनन्दः - देव ! विरमतु कथेयम् । अनया खलु द्विजराजराजपादाः महतीं नृपामुद्वहन्ति । विजयवर्मा निष्काममुपकारोऽपि विश्वोत्तीर्णा सतां क्रिया । अप्रकाशस्तु यस्तस्य तत्र ब्रह्मापि मन्थरः ॥ ८ ॥ सुनन्द:-देव ! पञ्चषाः सन्ति ते केचिदुपकर्तु स्फुरन्ति ये । ये स्मरन्त्युपकारस्य तैस्तु वन्ध्या वसुन्धरा ॥ ९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy