________________
६६
रामचन्द्रसूरिविरचितं
तत्कयय का प्रस्थितोऽसि ।
मदनकः-देवेन भगवतो लोहितपाणेः पुरुषोपहारं कर्तुकामेन बैदेशिकस्य कस्यापि गवेषणाय प्रेषितोऽस्मि ।
मङ्गलकः-इदानीं किं करोति देवः ।
मदनका-एष यक्षोपवने मैत्रेयेण सह किमपि जल्पमस्ति तंत्र व्रज त्वम् । अहमपि यथादिष्टमादधामि ।
(इति निष्क्रान्तौ ।) ॥विष्कम्भकः॥
(ततः प्रविशति यथानिर्दिष्टः समैत्रेयो विजयवर्मा सुनन्दप्रभूतिकच परिवारः ।) विजयवर्मा-कोऽत्र भोः ।।
(प्रविश्य ) माधव्यः-एषोऽस्मि । विजयवर्मा-माधव्य ! नव्या कामप्यद्य भगवतो यक्षाघिराजस्य पूजां विरचय । स्वयं च वयमद्य बलिं विधास्याम इत्युपहारपशुः पवित्रयित्वा प्रगुणीकार्यः।
यदादिशति रत्नाकराधिपतिः । ( इत्यभिधाय माधव्यो निष्क्रान्तः ।) विजयवर्मा-( सविनयं मैत्रेयं प्रति)
माणेभ्यो नापरं वस्तु प्रेमपात्रं वपुष्मताम् । १ ख- यक्षायतने' इति पाठः । २-ख' ततो' इति पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org