________________
रामचन्द्रसूरिविरचितं दिताऽसि तदा युवराजमुत्थापय ।
(आकाशे) उत्तिष्ठ भोः ! उतिष्ठ। कुमार:-( ससंग्रममुत्थाय ) कथमयमियान् जनसंमदः।। अम्ब ! किमय तातदशेनमहोत्सवे शोकदुर्दिनान्धकारितपदनासि । प्रयतस्व व्रजामस्तात पादान् प्रणन्तुम् । राजा-(सानन्दं सबाष्पं ) एहि वत्स! शीतांशुवंशमुक्तावचूल ! माम् । दोा मृणालमित्राभ्यामालिङ्ग पितरं निजम् ।। ११ ॥ कुमार:-कथं नेदीयांस एव तातपादाः । ( उत्थाम प्रणमति ।)
(राजा आलिङ्गय शिरसि चुम्बति । ) कुमार:-( मित्राणन्दमवलोक्य ) तात ! वध्यनेपथ्यधारी राजसदसि कोऽयम् ।
राजा-महदस्य चरितमनाख्येयमिदानी पवित्रे भवत्संपर्कपर्वणि । ( पुनः सविनयं मित्राणन्दं प्रति) त्वमेवास्य स्वामी त्वमसि जनकस्त्वं च जननी
गुरुस्त्वं बन्धुस्त्वं त्वमसि परमं मित्रमपि च । त्वया येनाकष्टत्रिभुवनजनग्रासरभसप्रवेल्लजिहाग्रात्पसममयमास्यापितृपतेः ॥ १२ ॥
(मित्राणन्दः सलज्जमधोमुखो भवति ।) राजा-(अमात्य प्रति )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org