SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ रामचन्द्रसूरिविरचितं तस्त्वं तस्वं कथय ननु नः कासि ? कस्यासि पत्नी ९ ॥ ९ ॥ कौमुदी - ( सलज्जं ) ( क ) देव ! वणिअस्स दुहिआ । एदस्स बहुआ । कामरतिः - देव ! नेयमस्य पत्नी । किमुतानेन कृतोऽप्यपहृत्य मन्त्रेण वा तन्त्रेण वा व्यामोहिता, तदियं मुहुर्मुहुरतदनुकूलं व्याहरति । राजा - (विमृश्य ) अरे कालपाश ! पौरानाहय । ( प्रविश्य कृतोष्णीषाः सप्ताष्टा वणिजः प्रणमन्ति । ) राजा - उपलक्ष्योपलक्ष्य प्रतिगृह्णीत यूयं स्वं स्वमाभरणं द्रविणं च । वणिजः - ( विलोक्य ) ( क ) भट्टा ! न इत्य मम्हाण आभरणं वा दविणं वा किं पि अस्थि । राजा - अमात्य ! न तावदमुनाऽस्मात्पौराणां किमप्यपहृतम् । देशान्तरतस्करनिग्रहे तु के वयम् ? । कामरतिः - ( स्वगतं ) ने नामास्मिंस्तस्करे जीवति ममेयं कथंचिदपि वनिता संपद्यते तदयं यथाकथंचिदपि व्यापादयितव्यः । भवतु । (प्रकाश) देव ! निश्चयेन तावदयं चौरः । सांप्रतमेव चायमायातस्ततः पौराणां किमपि नोपकृतवान् । अतः परं पुनः सर्वमपि शनैः शनैरुपकुर्यात् । । । (क) देव ! वणिजो दुहिता । एतस्य वधूः । (ख) भर्तः ! नात्रास्माकं आभरणं वा द्रविणं वा किमप्यस्ति । १ ख ' निग्रहेषु ' । २ ख ' न चास्मिन् '। ५८ Jain Education International For Private & Personal Use Only - www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy