SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ५ माः ] कौमुदीमित्राणन्दम् । कामरति:-(कौमुदीमवलोक्य साभिलाषमात्मगतं) कामं कामं कुसुमधनुषोऽप्यावहन्ती सशोके लोकेऽप्यस्मिन् यदि मृगहशामीहशी रूपलक्ष्मीः । क्लेशाकीर्णे तपसि विपुलखगभोगोत्सुकानां __ मन्दीभूता खलु तदधुना प्राणभाजां प्रवृत्तिः ॥ ४॥ राजा-(साक्षेप) रेरे तस्कर ! कस्तवात्र जनकः १ कः सोदरः १ कः सुतः ? कस्वाता किमु मित्रमस्ति ? सदनं ते कुत्री के बान्धवाः॥ कस्येयं कुसुमेषुकेलिसरसी सर्वाङ्गरम्या प्रिया ? केनाथ व्यसनेन विहलमना मुष्णासि नः पत्तनम् ॥५॥ मित्राणन्दः-(सभयं ) देव ! समुद्रोपजीवी मित्राणन्दनामा वणिगहं उद्वरितशेषं कियदपि द्रविणमादाय स्वनगरं प्रति प्रचलितः । अथ च मे देव एव त्रोता पिता बान्धवो वा। इयं च मे सधर्मचारिणी । नगरमहं मुष्णामि न वा ? इत्यत्र देवः प्रमाणम् । राजा-अरे कालपाश ! करण्डकाभ्यन्तरमवलोकय । कालपाश:-(विलोक्य ) देव ! एतानि सप्त कुण्डलानि, प्रयोदश मञ्जीराणि, एते चैकविंशतिरङ्गदाः, सप्तदश चूडामपयः । अपरस्य पुनवेजमायस्य रत्नसमूहस्य न शक्यते सं. ख्यानमाधातुम् । . १ख-'मत्र' इति । २ क 'माता' इति । ३ ख-'दैव' इति । स- एतस्य'। - Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy