SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ५१ रामचन्द्रसूरिविरचितं वरपादानां विजयवर्मणा मण्डलेश्वरेण प्रेषितोऽस्मि । राजा-दुरुच्छेदः खलु दुरात्मा चक्रसेनः । ततस्त्वया समग्रसामग्रीकेण योद्धव्यमिति गत्वा समादिश विजयवर्माणम् । (पुरुषः प्रणम्य निष्क्रान्तः । ) राजा-(विमृश्य ) अमात्य ! आकर्ष्यागमनं वयं स्वनगराद्वत्सस्य लक्ष्मीपतेः सर्वाङ्गीणसुधानिषेकसुभगामास्वादयामो दशाम् । कामं वाममिदं स्फुरत्यविरतं नेत्रं च गात्रं च नः कोऽयं नाम परस्परप्रतिहतः सर्गक्रमो वेवसः ॥३॥ कामरतिः-प्रभञ्जनमकोपप्रभवानामङ्गस्फुरणानां शुभाशुभोदर्केषु को नाम विश्रम्भः १ । (नेपथ्ये वध्यपटहध्वनिः।) राजा-अमात्य ! महोत्सवदिने किमिदम् ? । (प्रविश्य ) प्रतीहारः-वर्धसे देव ! वर्धसे, प्राप्तः कालपाशेन नगरलुण्टाकस्तस्करः। राजा-कासौ कासौ ?। (ततः प्रविशति कालपाशेन केशैर्गृहीतो मित्राणन्दः ___ मूर्धकृतकरण्डिका कौमुदी च ।) राजा-( साश्चर्य ) अमुना नेत्रसुधाञ्जकसुहृदाप्याकारेण चौर्यकरणम् । अहो ! विचित्रः कर्मणां विपाकः। १ ख-'निजस्य नग-' इति पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy