________________
रामचन्द्रसरिविरचितं
( कौमुदी सवाष्पमधोमुखीभवति ।) कालपाश:-( विमृश्य ) कोऽत्र भोः ।
(प्रविश्य ) वजाकरः-(क) एसो म्हि । आणवेदु लायउचो।
कालपाशः-अरे वज्राङ्कुर ! वादय वध्यपटइम्, उपनय सरासभं श्वपाकम् । (ख) जं आणवेदि शामी। (इत्यभिधाय वज्राकुरो निष्क्रान्तः ।)
(नेपथ्ये दुःश्रवो वध्यपटहध्वनिः ।) कालपाश:-वराहतुण्ड ! मलम्बय तस्करस्य केशान् । संदानय मुजौ।
( वराहतुण्डस्तथाकरोति ।)
(कौमुदी तारस्वरं प्रलपति ।) मित्राणन्दः-प्रिये !
मा विषीद कृतं बाष्पैः फलं मर्षय कर्मणाम् । सत्यं विषादशोकाभ्यां न दैवं परिवर्तते ॥ १७ ॥
(प्रविश्य सरासभः) श्वपाकः-(ग) एशे म्हि । आणवेद शामी।
कालपाश:--अरे खङ्गिल ! प्रसाधय रक्तचन्दनेन त. स्करस्य शरीरम् । निक्षिप शरावमालां कण्ठे ।
(क) एषोऽस्मि । आज्ञापयतु राजपुत्रः । (ख ) यदाज्ञापयति स्वामी । (ग) एषोऽस्मि । आज्ञापयतु स्वामी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org