SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ रामचन्द्रसूरिविरचितं करे यासि क्षुद्र ! ततरमगाराद्भव बहिः स्वयं क्रुद्धस्तुभ्यं पितृपतिरिदानीं न भवसि ॥ १५ ॥ मित्राणन्दः – प्रिये ! उचिष्ठोचिष्ठ, प्राप्ता राजपदातयः । (उभौ बहिर्भवतः । ) ४८ ( कौमुदी परिधानपटेन करण्डकं पिदधाति । ) कालपाशः -- ( साक्षेपं ) अरे ! कस्त्वमसि १ । मित्राणन्दः -- ( सकम्पं ) राजपुत्र ! पथिकोऽहम् । कालपाशः - इयं वनिता का ? | मित्राणन्दः --- मम सधर्मिणीयम् । कालपाशः - बाले ! करण्डिकायां किमस्ति १ । कौमुदी - ( सकम्पं ) (क) संबलयं किं पि अत्थि । वराहतुण्डः --- ( करण्डिकामुत्पाट्य विमुच्य च कालपाशं प्रति) प्रभूतद्रविणसारभारेण न शक्यते समुत्पाटितुम् । कालपाशः - ( सोपहासं ) बाले ! शम्बलस्य किमियान् भार: १, मध्य स्थिता चौर्य कारयसि ? | कौमुदी -- (ख) ताद ! अहं चोरिअं सिविणेऽवि न पिच्छामि कालपाशः - प्रत्यक्षमपि पश्यन्ती स्वप्ने न किं करिब्यसि १ । ( पुनः सावहित्थं ) दीर्घदंष्ट्र ! विधेहि किमप्यस्य समयोचितमातिथ्यम् । (क) शम्बलकं किमप्यस्ति । (ख) तात ! अहं चौर्य स्वमेऽपि न पश्यामि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy