SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ४ अहः ] कौमुदीमित्राणन्दम् । १७ मित्राणन्द:-( आकर्ण्य सभयं) यथायमानुपदिकस्य न्याहारः तथा जाने योऽयं करकलितासिधेनुनिःसृत्य गतः, व्यक्तमसौ चौरः । तदिदानीं तस्करस्थानोपलब्धैरस्माभिः किमनुष्ठेयम् । (कौमुदी कम्पते।) ( नेपथ्ये ) इहैव पदपद्धतिर्विशति पार्वतीमन्दिर तदत्र बहिरास्यता निभृतवृत्तिभिः पत्तिमिः। अयं स धृतजीवितः परगृहाट्टलुण्टाभ्रणो नियम्य परिगृह्यतां द्रविणघस्मरस्तस्करः ॥१४॥ (कौमुदी मूर्छामभिनयति । ) (नेपथ्ये) भो भोः पदातयः! कृतावधानैर्मध्ये प्रवेष्टव्यम् , अपि नाम दस्युः प्रहारमादधीत ।। मित्राणन्दः-(विलोक्य) सपरिकरः प्राप्तः पुरीरक्षकः। (ततः प्रविशति कालपाशः दीर्घदंष्ट्रवराहतुण्डप्रभृतिकश्व परिवारः।) कालपाश:-दीघेदंष्ट्र ! [ मध्य ] मवलोकय । दीर्घदंष्ट्र:-(विलोक्य ) राजपुत्र ! अस्ति किमपि मानुषमभ्यन्तरे। कालपाशा-(सक्रोधमुच्चेःस्वरं ) मुषित्वा पौराणां नवकनकमाणिक्यघटितां श्चिरं काशीचूडामणिमुकुटताटङ्ककटकान् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy