SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ४६ रामचन्द्रसूरिविरचितं या घातको वा, तदास्स्व यथासुखम् । ( पुनर्विलोक्य) कथमयं पाषाणसन्धिविवरेण निःसृत्य बहिर्गतवान् १ । भवतु, तर्हि गर्भगृहावस्थितां भट्टारिकां विलोकयामः । ( विलोक्य) प्रिये ! पश्य पश्य, नेत्रश्रोत्रकरौष्ठबाहुचरणघ्राणादिभिः प्राणिनां मन्त्रैः क्लृप्तबलिर्वसारसकृतस्नात्रान्त्रमालाचिंता । कण्ठस्थोरगलिह्यमानबद्दलप्लीहाङ्गरागागल द्रक्तार्द्रार्द्रनरेन्द्रकृत्तरसनोचंसा मृडानी पुरः ॥ १३ ॥ ( कौमुदी उत्तरीयाश्ञ्चलेन नासां पिधाय सजुगुप्तं निध्यायति । ) मित्राणन्दः - प्रिये ! कचिदपि प्रदेशे विसुश्च द्रविणकरण्डकम् । कौमुदी - ( करण्डकं विमुच्य ) (क) अज्जउत ! आणि केणावि कारणेण मह सरीरंमि महंतो उब्वेगो । मित्राणन्दः - प्रिये ! मार्गपरिलङ्घनेनापि तावदतितरा परिश्रान्तासि । पुनः कात्यायनीप्रतिभयमप्यभूत्, ततस्ते वपुषि समुद्वेगः । तन्मास्म किमपि विरूपमाशङ्किष्ठाः । ( नेपथ्ये ) (ख) एसा चोलपदपदर कच्चायणीभुवणं पविट्ठा । अओ वलं कायपुत्ते पमाणं । (क) आर्यपुत्र ! इदानीं केनापि कारणेन मम शरीरे महानुद्वेगः । (ख) एषा चोरपदपद्धतिः कात्यायनीभुवनं प्रविष्टा । अतः परं -राजपुत्रः प्रमाणम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy