SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ४ महः ] कौमुदीमित्राणन्दम् । मैत्रेयस्य परित्यागो यथा दुःखाकरोति माम् ॥७॥ कौमुदी-(क) अजउत्त ! अलाहि विसारण। जचामंतिदं करिस्सदि मित्तेभो । संघडिस्सदि सिंहलदीयचिट्ठाणं अम्हाणं । मित्राणन्दः-प्रिये ! यद्यपेतश्रमासि तदा नगराभ्यन्तरे गमनाय प्रक्रमस्व । (कौमुदी करण्डकमादाय उत्थानं नाटयति ।) (उभौ नगराभिमुखमुपसर्पतः । ) मित्राणन्दः-(सानन्दं ) प्रिये ! पश्य पश्य, विश्राम्यत्पथिकाः कचित्कचिदपि क्रीडाचलोपत्यका क्रीडत्पौरपुरन्ध्रयो गिरिसरिज्यकारताराः कचित् । एते ते रमयन्ति कोकिलकुलव्याहारवाचालितोचानक्षोणिरुहः पुरीपरिसराः श्रोत्राणि नेत्राणि च ॥८॥ (पुरोऽवलोक्य ) धावं धावमयं पुरः पुरजनः किं कान्दिशीको भ्रम त्येषोऽपि श्रुतिदुर्भगः प्रतिदिशं हक्कानिनादः कथम् । रुध्यन्तेऽध्वनि किं पदातिपटलैरागन्तवो जन्तवः कस्मात्कावचिका निकुञ्जकुहराण्यावृण्वते वाजिभिः ॥ (क) आर्यपुत्र ! अलं विषादेन । यथामन्त्रितं करिष्यति मैत्रेयः । संघटिष्यते सिंहलद्वीपस्थिताना अस्माकम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy