SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ४ . रामचन्द्रसूरिविरचितं पाचीनमश्चति वियत्पृथुशोककोक कान्ताकपोलपुलकोपयिक दिनेशः। श्रान्ता इवास्ततटकुट्टिममाश्रयन्ति राजीवजीवितहतो हरिणापादाः ॥१॥ कौमुदी-(क) अज्जउत्त! कित्तिअंबज्जविगन्तवं। मित्राणन्दः-प्रिये ! महत्यपि प्रासपारे मार्गोदन्वति मास्म विषादनिषादं स्पृहः । पासा एष सिंहलद्वीपराजधानीपरिसरभुवम् । यदि च रजनीचरणचकमणेनातिचिर परिश्रान्तासि तदानीमवतार्य शिरसः करण्डमनेकस्तबककदम्बकखर्वशाखस्य क्रमुकखण्डस्यास्य निरपायासु च्छायासु विनोदय क्षणं प्ररूढगाढस्वेदं मार्गखेदम् । (कौमुदी तथाकरोति ।) मित्राणन्दः-प्रिये ! नानादेशोद्भवैर्भग्नयानपाणिग्मिन्यासीकृतस्य विचित्रस्य कनकरत्नाभरणस्य समुहहनेन. सु. चिरमायासितानि बालमृणालकोमलानि तवाङ्गानि । तदहं संवाहयामि । कौमुदी-(सलजं) (ख) अज्जउत्त ! अलाहि एदिला (क ) आर्यपुत्र ! कियदद्यापि गन्तव्यम् । (ख) आर्यपुत्र ! अलं एतेन विनयप्रनशेन । न एष कुछ वधूना प्रशंसनीयो मार्गः । त्वमपि पादविहारकोशेन परिश्चन्तोऽसि, तदहं तेऽङ्गसंवाहनं करिष्यामि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy