SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ३ अङ्कः ] कौमुदीमित्राणन्दम् । ३७ (क) दइएहिं चेअ परंमुद्देहि मयणग्गिभिभलमणाओ । कारिज्जंते कुलबालिआउ गहिलाइँ कज्जाई ॥ १५ ॥ गन्धमूषिका - ततस्तथा कथञ्चिदस्या अभिमुखो भूयाः यथेयं कौलीनं किमपि नाचरति । ( मित्राणन्दः सलज्जमधोमुखो भवति । ) कुलपतिःजामातः ! प्रतिपादिता शुभशतमागल्भ्यलभ्या स्वयं तुभ्यं स्वर्गनितम्बिनीप्रतिनिधिः पुत्री मया कौमुदी । पित्रोर्नेत्रमहोत्सवे करतलव्यामोचनापर्वणि स्वैरं वस्तु यदिष्टमस्ति भवतस्तत्किञ्चिदुच्चैर्वृणु ॥१६॥ मित्राणन्दः - ( अञ्जलिं बद्ध्वा ) विषापहारमन्त्रोपदेशेन प्रसीद । कुलपतिः - ( सावहेलं ) प्रियां प्राणेभ्योऽपि त्वयि विसृजतो वत्स ! तनयामदेयं किं नाम स्वमपि विजहासोः कुलपतेः १ । किमेतैस्तैः पल्लीजनसमुचितैरक्षरलवै रसाध्यं विश्वानामपि किमपि वस्तु स्मर ततः ॥ १७॥ गजपाद: अल्पत्वं च महत्त्वं च वस्तुनोऽर्थित्वमीक्षते । व्येतरक्षुः श्रद्धालु कव्ये त्रिदशां पतिः ॥ १८ ॥ - (क) दयितैः खलु परामुखैर्मदनानिविह्वलमनसः । कार्यन्ते कुलबालिका मथिलानि कार्याणि ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy