SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ३ महः कौमुदीमित्राणन्दम् । (नेपथ्ये) इदानीं सर्वस्यापि कर्मणः पर्यन्तः संजातः। गजपाद:-(समयमात्मगतं) केयमुपश्रुतिः कुलपतेरनिष्ट सूचयति । (उपसृत्य कुन्दलता प्रणमति ।) कुलपति:-वत्से ! गत्वा भूहि आर्या गन्धमूषिकाम् । यथा, विवाहवेदिकामागत्य वधूवरोचितानि कर्माणि कास्य । (कुन्दलतिका निष्क्रान्ता।) (प्रविश्य) मर्कटवर्ण:-भगवन् ! इदानीं सर्वस्यापि कर्मणः पर्यन्तः सञ्जातः । तदागच्छत यूयं येन पाणिग्रहणमाधीयते । ( इति पुरो निधाय विज्ञपयति ।) (सर्वे परिकामन्ति ।) मर्कटवर्ण:-भगवन् ! इदं वधूवरम् । अयं पुरोधाः । इयं भगवती गन्धमृषिका कुन्दलता च । (ततः प्रविशन्ति यथानिर्दिष्टाः सर्वे ।) कुलपतिः-( गन्धमूषिकां प्रति ) आर्ये! सवरां विवाहवेदीमधिरूढां कौमुदी वत्सां विलोक्य प्राप्तमस्माभिर्जन्मनस्तपाकर्मणश्च फलम् । गन्धमूषिका-(सासं.) मदीयेन तपसा सतीत्वेन च चिरमविधवा भवतु वत्सा। गजपादः-वत्से प्रतिगृहाण शिरसा पितृष्वसुराविषम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy