________________
३ मह] कौमुदीमित्राणन्वम् । २९
मित्राणन्दः-(उपसृत्य) प्रिये ! लावण्यपुण्यपुण्येष्वपि किमात्मनोभेषु च्या वैराग्यमुहसि ।। गात्रं संनतगात्रि ! नेत्रसुखदं निःश्वासपूराइति
नोसाहादकरी रदच्छदसुधा जिहातिसौहित्यकृत् । नादः किभरकण्ठि ! कर्णसुखदो वक्षोजलक्ष्मीरियं
वक्षःप्रीणयते मृगाक्षिवद ते किं नेन्द्रियाणां मुदे ॥७॥ कौमुदी-(कण्ठिकां विलोक्य सात्त्विकभावान् नाटयति । पुनः स्वगतं) (क) इत्तिअकालं तादस्स अणुरोहेण मए अप्पा विहंविदो । इआणि पुण एदं चेअ नयणमणमहसवं सत्यवाह अणुसरिस्स।
कुन्दलता-(ख) सत्यवाह ! तेण मणिणा किं पि तु. म्हाणं उवकिदं ।
मैत्रेयः-कौमुदीहृदयकार्मणं किमपि वस्तु तदानीमेवोपनयता तेन रत्नेन महदुपकृतम् ।
मित्राणन्दः–कुन्दलतिके ! अस्मन्मनासंग्रहणसत्यकारस्त्वया समुपनीतस्तदानीमसौ मणिविशेषः ।
मैत्रेयः-कुन्दलतिके! अयमपि तस्य त्वदुपनीतस्य मणेः सत्रासादो यदयं महौषधिवलयसुभगम्भविष्णुर्वामेतरोमेबाहुः। मित्राणन्द:-( सोत्कण्ठं कौमुदीवदनमवलोक्य ) मैत्रेय !
(क) एतावत्कालं तातस्यानुरोधेन मयाऽऽत्मा विडम्बितः । इदानीं पुनरेतमेव नयनमनोमहोत्सवं सार्थवाहमनुसरिष्यामि ।
(ख) सार्थवाह ! तेन मणिना-किमपि युष्माकमुपकृतम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org