SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ ३ अरः] कौमुदीमित्राणन्दम् । अमृतजलधेः पुण्यैस्तैस्तैर्निमन्जितमूर्मिभिः मृदुभिरमितो देवस्येन्दोमरीचिभिरश्चितम् । निजवपुरिदं मन्ये तस्याः कुरङ्गकचक्षुषो विरतिविमुखैः स्निग्धैर्दिग्धं कटाक्षनिरीक्षितैः ॥ २॥ (विमृश्य ) यतः प्रभृति भगवतः पाशपाणेस्तां कल्पलतां कण्ठिकामधिगतवानस्मि ततः प्रभृत्येव कौमुदीसंपर्कपर्वणि कयङ्कारमतितरामुत्कण्ठते चेतः। तदवगच्छ किमत्र निदानम् । मैत्रेयः-स्त्रीपुंसयोमन्मथोन्मादैककार्मणं कण्ठिकायाः प्रभावातिशय एवात्र निदानम् । तदेहि पर्यालोचयितुं तां कौमुदीमुपवनाभ्यन्तरे कचिदपि मृगयामहे । (नेपथ्ये ) (क) खणदिट्ठजणणिमित्तं बंधुअणं परिचिअंहिअकरं च। मिलंतीणं महिलाण मुणह जइ माणसं बंभो ॥३॥ मित्राणन्दः-( आकर्ण्य) कथमयं लतागृहाभ्यन्तरे कौमुदीध्वनिः । ( विलोक्य ) मैत्रेय ! कौमुदी कुन्दलता चात्रैव तिष्ठतः तत्तावत्तिरोहिता एव क्षणं शृणुमो वयमनयो: संकयाम् । (ततः प्रविशति कौमुदी कुन्दलता च ।) कौमुदी-(सकैतवं) (ख) अहवा निसग्गचंगंगसनि(क) क्षणदृष्टजननिमित्त बन्धुजनं परिचितं हितकरं च । मुञ्चतीनां महिलानां जानाति यदि मानसं ब्रह्मा ॥ (ख) भरवा निसर्गचाइसंनिवेषामिर्विचित्रमूषणाभिर्नगर Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy