SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ रामचन्द्रसूरिविरचितं विवाहमङ्गलमप्यद्यप्रातीनं तदपि युष्माभिरनुष्ठेयम् । कुन्दप्रभः – जलधिपरमेश्वर ! अपरोऽपि मनुष्यो न पात्रं भवत्क्रोधप्रबोधस्य, किं पुनरयं कुलपतेर्जामाता ?, तदयं विशे-तो यादसांनाथस्य प्रसादातिरेकं कमप्यईति । पाशपाणि: - एतस्मै प्रयच्छ तर्हि तां कल्पलतां कण्ठिकां येनायं कौमुदीनेत्रयोर्महोत्सवमुपनयति । ( कुन्दप्रभः कण्ठिकामुपनयति । ) पाशपाणि: - गजपाद ! जामातरमादाय प्रयाहि पर्णशालायाम् । वयमपि करणीयान्तरमनुतिष्ठामः । ( इति निष्क्रान्ताः सर्वे । ) ॥ द्वितीयोऽङ्कः समाप्तः ॥ २६ ॥ अथ तृतीयोऽङ्कः ॥ ( ततः प्रविशति मित्राणन्दो मैत्रेयश्च । ) मित्राणन्दः - (स्मृत्वा ) मैत्रेय ! सत्यां यौवनभाजि तापसपतेः पुत्र्यां पुलोमात्मजा दर्प विश्वपुरन्ध्रिरूपजयिनि व्यर्थ वहत्यात्मनि । दर्पो वास्तु दृशा निमेषकलुषप्रत्यासनिष्पङ्कया जातं तर्हि मृगेक्षणासु नियतं पाञ्चालिकाचारवः ॥ १॥ ( पुनः सानन्दं ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy