SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ २ अरः] कौमुदीमित्राणन्दम् । २३ सांपतं पुनः प्राणदानवेतनाक्रीतः कल्पसहस्रावधि मित्राजन्ददासः। मित्राणन्दः-(कर्णी पिधाय ) सिद्धाधिनाय ! मामेवमौचित्यातिक्रमेण मा दवीथाः । वसुधास्पृहणीयवैभवैः खेचरचक्रवर्तिभिर्भवादृशैः प्रबोधितस्य श्रवणोदरसदःसुधावर्षिणश्चाटुकर्मणः पुरन्दराहस्य तस्यास्यानर्हाः खलु जठरपीठरीमरणमात्रोन्मदिष्णुचेतसो निस्तेजसो वणिजः । (नेपथ्ये) श्रेयांसि प्रभवन्तु ते प्रतिदिशं तेजांसि वर्धिष्णुतां तां पुष्णन्तु भवन्तु वीतविपदस्ते पाथसां संपदः । आशाः सन्तु भवद्यशोभिरनिशं व्याकोशकुन्दत्विषो विधेषां शमिनां तपोभिरनघैः कल्पान्तजीवी भव॥११॥ पुरुषः-(समाकर्ण्य सकम्पं ) यथामी घोरघोणप्रभृतयस्तपोधनाः प्रमोदप्रबोधितबाष्पोर्मिमूर्छालकण्ठकुहरसदसो मधुरगम्भीरघोषमाशिषमुद्घोषयन्ति तथा जाने देवतायतनमुपसर्पति पाशपाणिः, तद्विसर्जयत माम् । अपरया पुनरप्ययं दुरात्मा मयि कामपि यातनामाधास्यति । अहं च सांप्रतं विगतशोकपरिच्छदः प्रत्युपकारविद् रुषमपि प्रथयितुमनलम्भूपुणुस्ततो यदि तत्रभवतां भवतां हतकस्य दुर्मेधसो विलसितेन किमपि व्यसनमुपजायेत तदा मां पदातिरेणुं सरेयुः। (इत्यभिषाय प्रणम्य त्वरिततरं निष्क्रान्तः ।) मैत्रेया-फयमयं पाशपाणिप्रतिभयेनौषधेर्वलयं विस्मृत्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy