SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ रामचन्द्रसूरिविरचितं ( मित्राणन्दः मणिसंपर्केणाम्भः प्रवित्रयित्वा सर्वाङ्गीणं पुरुषमभिषिञ्चति । ) मैत्रेयः कथमपसृताः सर्वतोऽपि गात्रतो वज्रकीलकोटयः १ । अहो ! मनसोऽप्यभूमिः प्रभावातिशयो रत्नस्य । पुरुषः- ( क्षणं लोचने निमील्य सुखमास्ते । पुनर्मन्दस्वरं ) नितान्तशिशिरेणाम्भसा सर्वाङ्गीणमभिषिच्य सुचिरमभिबीजयत माम् । २२ ( उमौ तथाकुरुतः । ) पुरुषः--( क्षणमाश्वस्य ) मैत्रेय ! अमुष्य कलावीचिनिवेशितस्योपधेर्वलयस्य द्रवेण मामभिलिम्प येन व्रणानि संरोहन्ति । ( मैत्रेयस्तथाकरोति । ) मित्राणन्दः - ( सकौतुकं ) कथं क्षणादेव गात्रमशेषमप्यलक्षितव्रणसंनिवेशमजायत । ( पुनः साश्वर्यं ) सोऽयमपरो भूर्भुवः स्वश्चेतश्चमत्कारी प्रभावातिशयः । पुरुषः -- ( सहसा प्रणम्य ) कारुण्यैकनिधान ! विश्वजनतासंतापनिर्वापनापाथोद ! त्रिजगत्प्रियङ्करगुणग्रामाभिरामोदय ! | स्तोतुं यत्र न ते चरित्रविभवं वक्रैश्चतुर्भिः मधुब्रह्मा सोऽपि निसर्गदुर्गजडिमा को नाम त[त्रास्म्यहम् १] ॥ ( मित्राणन्दो लज्जया दि [ क्षु चक्षुषी ] विक्षिपति | ) पुरुषः- ( पुनरभलिं बद्ध्वा ) इयन्त कालमहमनङ्गदासः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy