SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ २ अरः] कौमुदीमित्राणन्दम् । पुरुषः-(साक्षेप) लघीयसीति विशेषणं विश्वोपकारकरणकच्छुराभ्यामात्मनो व्यवसायाध्यवसायाभ्यां प्रतिहतमुपात्तवानसि । महत्त्वक्षीवतां पुनरस्माकमयमकाण्डोपस्थिता प्रचेतःप्रभवः प्रतिभयाडम्बरः समूलका कषितवान् । अपि च अपारेऽप्यस्मिन् त्रिभुवनपारावारे परमार्यतस्त्वमेव महत्त्ववान्, यस्याऽयं वाअनसोरुतीर्णः स्वभावशीर्णप्रत्युपकारस्पृहाकौलीनवृत्तिनिरर्गलः परोपकाररसावेशः। मित्राणन्दः संपत् परस्य रोहन्ती भाग्यानां सुखमीक्षते । स्वशक्तितोलनं नाम माहात्म्यं तु महात्मनाम् ॥ ८॥ पुरुषः-को नामात्र त्रिलोकीविश्रुते राजवर्त्मनि भ्रान्तिमावहति । स्फुरन्त्युपायाः शान्त्यर्थमनुकूले विधातरि । प्रतिकूले पुनयोन्ति तेऽप्युपाया अपायताम् ॥९॥ ततः कृतं कालविलम्बेन । आक्रामन्ति प्राणाः कण्ठपीउम् । अतः परं सर्वाङ्गीणपरोहिणा वज्रकीलपीडासंभारेण प्रतिहताशेषेन्द्रियस्थानो निरीक्षितुमप्रभविष्णुः । किमपरं मन्दमपि वकुमनलम्भूष्णुरस्मि । तत्त्वरिततरं प्रकटय कस्याप्यनर्यस्य मनस्य वा तवस्य वा रवस्य वा प्रभावातिशयम् । मित्राणन्द:-(विमृश्य ) मैत्रेय ! कुतोऽपि भीतमम्मः समानय । मैत्रेयर-(निष्कम्य प्रविश्य च) तदिदमम्मः । Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy