SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ २ अरः कौमुदीमित्राणन्दम् । सताभिधानया दिव्यकण्ठिकया प्रसाधितकण्ठपीठः केनापि व्यसनेन प्रकाशयितुमनुचितेन सततोपप्लुतान्तःकरणचूर्णविशेपभभावविहितरूपान्तरः प्रतिनिशमस्मिन् वरुणद्वीपे परिभ्रमामि। मैत्रेयः-अहो ! समृद्धकुतूहलानुबन्धः प्रबन्धः । पुरुषः-अद्य पुनर्निशीथे सान्तःपुरेण क्रीडार्थमितस्तत: स्वैरं विहरता रचेतसा प्रचेतसा समुपलभ्य 'सततमसूर्यम्पश्यमस्मदन्तःपुरकामिनीजनमभिलाषुकः परिभ्राम्यसि ।' इत्यपिदधानेन कण्ठपीठतः कण्ठिकामाच्छिद्य बद्ध्वा च स्फुटं दो कन्धरम् । मैत्रेय:-( सकम्पं ) ततः किं कृतम् । पुरुषः-( सदैन्यं) पुरन्दरेणाप्यविषापीडाभिर्निशातकोटिभिर्बहुकीलफोटिभिः स्वयमिहानीय प्रत्यङ्ग कीलितोऽस्मि । मित्राणन्दः-इदानी प्रचेताः क वर्तते ।। पुरुषः--कचिदपि कूले संक्रीडते । प्रतिनिवृत्तः पुनः किमप्यतः परमपि विधास्यतीति नावगच्छामि। मैत्रेयः-अश्रोतव्यं अश्रोतव्यम् । (पुनरपवार्य) तेनामुना महात्मनोऽस्य प्रबन्धेनाहमप्यन्तःशोकशङ्कुना कीलितोऽस्मि । तद्विचिन्तय किमपि शल्यसमुद्धरणोपयिकम् । मित्राणन्दः अस्ति नः कुलक्रमागतः शल्यसमुद्धरणप्रथितमहिमा नामपवित्रो मत्रः। परं कदाचिदप्यनिरूपितप्रत्वया, अतो मे मनाग मनः संदेग्धि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy