SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ रामचन्द्रसूरिविरचितं पुरुषः-( वेदनामभिनीय ) अहह । मित्राणन्दःआकारः स्मरसोदरस्तनुलतालक्ष्माणि विश्वत्रयी साम्राज्यं प्रथयन्ति शंसति भुजा निर्वीरवर्ज जगत् । यद्वा वायनसां दृशां च न पदं किश्चित्तु तद्वर्त्तते । यूयं सत्पुरुषा वयं च पथिकाः प्रष्टुं ततः कः क्रमः १ ॥ पुरुष:-( मन्दस्वरं ) महाभाग! चिन्तयन्त्युपकुर्वन्तः संस्तवं हृदि सस्पृहाः । निस्पृहाणां च को नाम कामः संस्तवचिन्तने १ ॥५॥ ततस्तमेनमिदानी मद्वत्तान्तमसंस्तुतोऽपि परोपकारैकरसिकः स भगवान् (१) भवानहेत्येव विज्ञातुम् । किमुत महचमेयं कथा श्रूयमाणापि कातरचेतसां महान्तमातङ्कमावहति । न चानया कथा (थया) प्रथितयापि कुतोऽपि किमपि परित्राणम् । मित्राणन्दःविधातुं संपदो हर्तुमापदश्च न निश्चयः । मनस्तु मे सदाप्यन्यदुःखसंक्रान्तिदर्पणः ॥६॥ तदावेदयत के यूयम् १, कथं च दुस्थावस्थापातिनः । पुरुषः-महाभाग ! रत्नकूटपर्वतनिवासी सिद्धश्रेणीमणिमुकुटविटकमसृणीकृतपादपीठोऽहमनङ्गदासामिषानो योनिसिद्धः। मित्राणन्दः-ततस्ततः । पुरुषः त्रैलोक्यकामिनीजनमनःक्षोभकतानया च कल्प Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy