SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ कौमुदीमित्राणन्दम् । २ ः ] मन्तव्यमिति कुलपतिर्वा समादिशति । मित्राणन्दः -- एते वयमागता एवेति गत्वा निवेदय कुलपतिपादेभ्यः । ( गृधाक्षो निष्क्रान्तः । ) ( नेपथ्ये ) माभिः कुङ्कुमसोदराभिरभितो देवे प्रभाणां प्रभौ धात्रीं लिम्पति शीर्णमुद्रनयनैः किं किं न दृष्टं जनैः १ ॥ पूर्वोपार्जितकर्मवर्मपटलम भ्रष्टदृष्टिकियो नात्मानं न परं च पश्यति कृपापात्रं पुनः कौशिकः ॥२॥ मित्राणन्दः - ( आकर्ण्य सभयं ) कस्यापि महौजसो दुःस्यावस्थोपनिपातप्रतिरुद्धाशेषशुभाशुभव्यापारस्यायं व्याहारः । तदेहि मैत्रेय ! देवतायतनस्य पाश्चात्यभागमवलोकयामः । मैत्रेयः - ( विलोक्य सभयं ) कथमयं पुरुषः सहकार - वरुणा सह वज्रकलैः कीलितोऽस्ति ? | १७ ( ततः प्रविशति यथानिर्दिष्टः पुरुषः । ) पुरुषः- कष्टं भोः ! कष्टम्, क सा सिद्धश्रेणिप्रणति सुभगा खेचरदशा ? क चायं संस्त्रिभुवनमनः शोकरसिकः ? | न यो वाचः पात्रं भवति न दृशो नापि मनसस्वमप्यर्थं क्रुद्धो हतविधिरकाण्डे घटयति ॥ ३ ॥ मित्राणन्दः - किमिदमश्रद्धेयम् १ । भवतु, समीपीभूय जानीमः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy